श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

क्षुभ्यत्समुद्रं समुहढरौद्र रटनिशाटं स्फुटदद्रिकूटम् ।

ज्वलदिशान्तं प्रचलद्धान्तं प्रभ्रश्यदक्षं दलदन्तरिक्षम् ॥ ४१॥

जवादभिद्रुत्य शितस्वस्त्रैर्दैत्येश्वरस्येव पुरा नखाः।

क्षिपत्रिशूलस्य स तस्य वक्षो ददार विक्षिप्तसुरारिपक्षः ॥ ४२ ॥

तत्तागत्युग्रनखायुधाम्यो दंष्ट्रान्तरप्रोतदुरीहदेहः ।

निन्ये तदार्नी नृहारविदीर्णधुपट्टनाट्टालिकमट्टहासम् ॥ ४३ ॥

आकर्णवस्तं निनदं बहिर्गता उपागमन्नाकुलचित्तवृत्तयः ।

व्यलोकयन् भैरवमग्रनो मृतं ततो विमुक्तं च गुरुं सुखोषितम् ॥४४॥

प्रहावश्यो भगवान् कथं वा प्रसादितोऽयं नृहरिस्त्वयेति ।

सविस्मयः स्निग्धजनैः स पृष्टः सनन्दनः सस्मितमित्यवादीत् ॥ ४५।।

पुरा किलाहोबलभूधराग्रे पुण्यं समाश्रित्य किमप्यरण्यम् ।

भक्तकवश्यं भगवन्तमेनं ध्यायननेकान् दिवसाननैषम् ।। ४६ ॥

किमर्थमेको गिरिगह्वरेस्मिन् वाचंयम त्वं वससीति शश्वत् ।

केनापि पृष्टोऽत्र किरातयूना प्रत्युत्तरं प्रागहमित्यवोचम् ।। ४७ ॥

आकण्ठमत्यद्भुतमर्त्यमूर्तिः कण्ठीवात्मा परतश्च कश्चित् ।

मृगो वनेऽस्मिन् मृगयो वसन्मे भवत्यहो नाक्षिपणे कदापि ॥४८॥

इतीरयत्येव मयि क्षणेन वनेचरोऽयं प्रविशन् बनान्तम् ।

निबध्य गाढं नृहरि लताभिः पुण्पैरगण्यैः पुरतो व्यधान्मे ।। ४९ ॥

महर्षिभिस्त्वं मनसाप्यगम्यो वनेचरस्यैव कथं वशेऽभूः ।

इत्यद्भुनाविष्टदा मयाऽसौ विज्ञाप्यमानो विभुरित्यवादीत् ॥५०॥

एकाग्रचित्तेन यथाऽमुनाह ध्यातस्तथा धामबैन पूर्वैः ।

नोपालभेयास्त्वमितीरयन्मे कृत्या प्रसादं कृतवास्तिरोधिम् ॥ ५१ ॥

Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152