श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152

॥ एकादशः सर्गः॥

(उग्रभैरववधः)

तत्रैकदाच्छादितनैजदोषः पौलस्त्यवत्कल्पितसाधुवेषः ।

निर्मानमायं स्थितकार्यशेषः कापालिकः कश्चिदनल्पदोषः ॥१॥

असावपश्यन्मदनावश्यं वश्येन्द्रियाश्वमुनिभिर्विमृग्यम् ।

आदिश्य भाष्यं सपदि प्रशस्यमासीनमाश्रित्य मुनि रहस्यम् ॥२॥

दृष्ट्वैव हृष्टः स चिरादभीष्टं निर्धार्य संसिद्धमिव स्वमिष्टम् ।

महद्विशिष्टं निजलामतुष्टं विस्पष्टमाचष्ट च कृत्यशिष्टम् ॥३॥

गुणांस्तवाकये मुनेऽनवद्यान्साश्यसौशील्यदयालुताद्यान् ।

द्रष्टुं समुत्कण्ठिनचित्तवृत्तिभवन्तमागां विदितप्रवृत्तिः । ४ ॥

त्वमेक एवात्र निरस्तमोहः पराकृतद्वतिवचःसमूहः ।

आभासि दूरीकृतदेहमानः शुद्धाद्वये योजितसर्वमानः ॥५॥

परोपकृत्यै प्रगृहीतमूर्तिरमर्त्यलोकेष्वपि गीतकीर्तिः ।

कटाक्षलेशादितसञ्जनातिः सदुक्तिसम्पादितविश्वपूर्तिः ॥ ६॥

गुणाकरत्वाद्भुवनैकमान्यः समस्तवित्त्वादभिमानशून्यः ।

विजित्वरत्वाद्गलहस्तितान्यः स्वात्मप्रदत्वाच महावदान्यः ।। ७ ॥

अशेषकल्याणगुणालयेषु परावरज्ञेषु भवादृशेषु ।

कार्यार्थिनः काप्यनवाप्य कामं न यान्ति दुष्प्रापमपि प्रकामम् ।।

तस्मान्महत्कार्यमहं प्रपद्य निर्वर्तितं सर्वविता त्वयाऽद्य ।

कपालिन प्रीणयितु यतिष्ये कृतार्थमात्मानमतः करिष्ये ॥९॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156