श्रीमच्छङ्करदिग्विजयः - दशम सर्ग: राजदेहप्रवेशादिकथनम् - 151
अच्याफ्यन्तमसदर्थनिरासपूर्व किन्स्वन्यतीर्थयशसं श्रुतिभाष्यजातम् ।
आक्षिप्य पाशुपतवैष्णवीरशैवमाहेश्वराश्च विजिता हि सुरेश्वरायः ॥
केचिद्विसृज्य मतमात्म्यममुष्य शिष्य-
भावं गता विगतमत्मरमानदोषाः ।
अन्ये तु मन्युपशमेत्य जघन्यचित्ता
निन्युः क्षणं निधनमस्य निरीक्षमाणाः ।। ११६ ।।
वेदान्तीकृतनीचशूद्रवचसो वेदाः स्वयं कल्पनाः
पापिष्ठाः स्वमपि त्रयीपथमपि प्रायो दहन्तः खलाः ।
साक्षाब्रह्मणि शङ्करे विदधति स्पर्धानिबद्धां मति
कृष्णे पौण्ड्रकवत्तथा न चरमां किं ते लभन्ते गतिम् ।।
वाणी काणभुजी च नैव गणिता लीना क्वचित्कापिली
शैवं चाशिवभावमेति भजते गर्दापदं चाहतम् ।
दोग दुर्गतिमश्नुते भुवि जनः पुष्णाति को वैष्णवं
निष्णातेषु यतीशसूक्तिषु कथाकेलीकृतामुक्तिषु ।। ११८ ।।
तथागतकथा गता तदनुयायि नैयायिक
वचोऽजनि न चोदितो वदति जातु तौतातितः ।
विदग्धति न दग्धधीविदितचापलं कापिलं
विनिर्दयविनिर्दलद्विमतसङ्करे शङ्करे ॥ ११९ ॥
इति श्रीमाधवीये तत्कलाज्ञत्वप्रपञ्चनम् ।
संक्षेपशङ्करजये सर्गोऽयं दशमोऽभवत् ॥
Comments
Post a Comment