श्रीमच्छङ्करदिग्विजयः - दशम सर्ग: राजदेहप्रवेशादिकथनम् - 151

अच्याफ्यन्तमसदर्थनिरासपूर्व किन्स्वन्यतीर्थयशसं श्रुतिभाष्यजातम् ।

आक्षिप्य पाशुपतवैष्णवीरशैवमाहेश्वराश्च विजिता हि सुरेश्वरायः ॥

केचिद्विसृज्य मतमात्म्यममुष्य शिष्य-

भावं गता विगतमत्मरमानदोषाः ।

अन्ये तु मन्युपशमेत्य जघन्यचित्ता

निन्युः क्षणं निधनमस्य निरीक्षमाणाः ।। ११६ ।।

वेदान्तीकृतनीचशूद्रवचसो वेदाः स्वयं कल्पनाः

पापिष्ठाः स्वमपि त्रयीपथमपि प्रायो दहन्तः खलाः ।

साक्षाब्रह्मणि शङ्करे विदधति स्पर्धानिबद्धां मति

कृष्णे पौण्ड्रकवत्तथा न चरमां किं ते लभन्ते गतिम् ।।

वाणी काणभुजी च नैव गणिता लीना क्वचित्कापिली

शैवं चाशिवभावमेति भजते गर्दापदं चाहतम् ।

दोग दुर्गतिमश्नुते भुवि जनः पुष्णाति को वैष्णवं

निष्णातेषु यतीशसूक्तिषु कथाकेलीकृतामुक्तिषु ।। ११८ ।।

तथागतकथा गता तदनुयायि नैयायिक

वचोऽजनि न चोदितो वदति जातु तौतातितः ।

विदग्धति न दग्धधीविदितचापलं कापिलं

विनिर्दयविनिर्दलद्विमतसङ्करे शङ्करे ॥ ११९ ॥

इति श्रीमाधवीये तत्कलाज्ञत्वप्रपञ्चनम् ।

संक्षेपशङ्करजये सर्गोऽयं दशमोऽभवत् ॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152