श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 153

अनेन देहेन सहैव गन्तुं कैलासमीशेन समं च रन्तुम् ।

अतोषयं तीव्रतपोभिरुग्रं सुदुष्करैरन्दशतं समग्रम् ॥ १० ॥

तुष्टोऽब्रवीन्मां गिरिशः पुमर्थमभीप्सितं प्राप्स्यसि मत्प्रियार्थम् ।

जुहोपि चेत्सर्वविदः शिरो वा हुताशने भूमिपतेः शिरो वा ॥ ११ ॥

एतावदुक्त्वाऽन्तरधान्महेशस्तदादि तत्संग्रहणे धृताशः।

चराम्यथापि क्षितिपो न लब्धो न सर्व वित्तत्र मयोपलब्धः ॥१२॥

दिष्टयाऽद्य लोकस्य हिते चरन्तं सर्वज्ञमद्राक्षमहं भवन्तम् ।

इतः परं सेत्स्यति मेऽनुवन्धः सन्दर्शनान्तो हि जनस बन्धः ॥ १३ ॥

मूर्धाभिषिक्तस्य शिरःकपालं मुनीशितुर्वा मम सिद्धिहेतुः ।

आधे पुनर्मे मनसाऽप्यलभ्यं ततः परं तत्रभवान् प्रमाणम् ॥ १४ ॥

शिरःप्रदानेऽद्भुतकीर्तिलाभस्तवापि लोके मम सिद्धिलामः ।

आलोच्य देहस्य च नश्वरत्वं यद्रोचते सत्तम तत्कुरु त्वम् ।। १५ ॥

तद्याचितुं न क्षमते मनो मे को वेष्टदायि स्वशरीरमुज्झतु ।

भवान् विरक्तो न शरीरमानी परोपकाराय धृतात्मदेहः ॥१६॥

जनाः परक्लेशकथानभिज्ञा नक्तं दिवा स्वार्थकृतात्मचित्ताः ।

रिपुं निहन्तुं कुलिशाय वज्री दाधीचमादात्किल वाञ्छितास्थि ॥१७॥

दधीचिमुख्याः क्षणिकं शरीरं त्यक्त्वा परार्थे स्म यशःशरीरम् ।

प्राप्य स्थिरं सर्वगतं जगन्ति गुणैरनथ्यः किल रञ्जयन्ति ॥१८॥

वपुर्धरन्ते परतुष्टिहेतोः केचित्प्रेशान्ता दयया परीताः ।

अस्मादृशाः केचन सन्ति लोके स्वार्थैकनिष्ठा दयया विहीनाः ॥१९॥

परोपकारं च विनाऽस्ति किञ्चित्प्रयोजनं ते विधुतैषणस्य ।

अस्मादृशाः कामवशास्तु युक्तायुक्त विजानन्ति न हुन्त योगिन् ।


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152