श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 154
जीमूतवाहो निजजीवदायी दधीचिरपस्थि मुदा ददानः ।
आचन्द्रतारामपायशून्य प्राप्तौ यशः कर्णपथं गतौ हि ॥ २१ ॥
यद्यप्यदेयं ननु देहवद्भिर्मयार्थितं गर्हितमेव सद्भिः।
तथाऽपि सर्वत्र विरागवद्भिः किमस्त्यदेयं परमार्थविद्भिः ॥ २२ ॥
अखण्डमूर्धन्यकपालमाहुः संसिद्धिदं साधकपुङ्गवेभ्यः ।
विना भवन्तं बहो न सन्ति तद्वत् पुमांसा भगवन् पृथिव्याम् ॥
प्रयच्छ शी भगवनमः स्तादितीरयित्वा पतितं पुरस्तात् ।
तमनत्रीद्वील्य सुधीरवस्तात्कृपालरावृत्तमनाः समस्तात् ।। २४ ॥
नैवाम्यस्यामि वचस्त्वदीयं प्रीत्या प्रयच्छामि शिरोऽस्मदीयम् ।
को वापिसात्प्राजतमो नृकार्य जानन कुर्यादिह बह्वपायम् ॥२५॥
पतत्यवश्यं हि विकृष्यमाणं कालेन यतादपि रक्ष्यमाणम् ।
वर्माना विध्यति चेत्तरार्थः स एव मर्त्यस परः पुमर्थः ॥ २६ ॥
वर्ते विविक्तेऽघिसमाधि सिद्धिविन्मिथः समायाहि करोमि ते मतम् ।
नाहं प्रकाशं वितरीतुमुत्सहे शिरःकपालं विजनं समाश्रय ।। २७ ।।
शिष्या विदन्ति यदि चिन्तितकार्यमेतत्
योगिन् मदेवशरणा विहति विदध्युः।
को वा सहेत वपुरेतदयोहितुं वं
को वा क्षमेत निजनाथशरीरमोक्षम् ॥ २८॥
तौ संविदं वितनुतामिति संप्रहृष्टी
योगी जगाम मुदितो निलयं मनस्वी ।
श्रीशङ्करोऽपि निजधामनि जोपमास
प्रोचे न किंचिदपि भावमसौ मनोगम् ।। २९ ॥
Comments
Post a Comment