श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 155

शूली त्रिपुण्ड्री पुरतोऽवलोकी कङ्कालमालाकृतगात्रभूषः ।

संरक्तनेवा मदघूर्णिताक्षो योगी ययो देशिकवासभूमिम् ।। ३० ॥

शिष्येषु शिष्टेषु विदूरगेषु स्नानादिकार्याय विविक्तभाजि ।

श्रीदेशिकेन्द्रे तु सनन्दनाख्यभीत्या स्वदेहं व्यवधाय गूढे ॥ ३१ ।।

तं भैरवाकारसुदीक्ष्य देशिकस्त्यक्तुं शरीरं व्यधित स्वयं मनः ।

आत्मानमात्मन्युदयुक्त यो जपन् समाहितात्मा करणानि संहरन् ।

तं भैरवोऽलोकत लोकपूज्यं स्वसौख्यतुच्छीकृतदेवराज्यम् ।

योगीशमासादितनिर्विकल्पं सनत्सुजातप्रभृतेरनल्पम् ॥ ३३ ॥

जत्रुप्रदेशे चिबुकं निधाय व्यात्तास्यमुत्तानकरौ निधाय ।

जानूपरि प्रेक्षितनासिकान्तं विलोचने सामि निमील्य कान्तम् ॥३४॥

आसीनमुच्चीकृतपूर्वगात्रं सिद्धासने शेषितबोधमात्रम् ।

चिन्मानविन्यस्तहृषीकवर्ग समाधिविस्मारितविश्वसर्गम् ॥ ३५ ॥

विलोक्य तं हन्तुमपास्तशङ्कः स्वबुद्धिपूर्वार्जिततीव्रपङ्कः।

प्रापोद्यतासिः सविधं स यावद्विज्ञातवान् पद्मपदोऽपि तावत् ॥ ३६॥

त्रिशूलमुबम्य निहन्तुकामं गुरुं यतात्मा समुदेक्षतान्तः ।

स्थितश्चुकोप ज्वलिताग्निकल्पः स पद्मपादः स्वगुरोहितेषी ॥ ३७॥

स्मरन्नथैष स्मरदातिहारि प्रह्लादवश्यं परमं महस्तत् ।

स मन्त्रसिद्धो नृहरे सिंहो भूत्वा ददर्शोग्रदुरीहचेश्याम् ॥ ३८ ॥

स तत्क्षणक्षुब्धनिजस्तभावः प्रवृद्धरुडू विस्मृतमय॑मावः ।

आविष्कृतात्युग्रनृसिंहभावः समुत्पपातातुलितप्रभावः ॥ ३९ ॥

सटाच्छटास्फोटितमेघसङ्घस्तीवावत्रासितभृतसङ्घः ।

संवेगसंमूञ्छितलोकसङ्घः किमेतदित्याकुलदेवसङ्घः ॥ ५० ।।


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213