श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 155
शूली त्रिपुण्ड्री पुरतोऽवलोकी कङ्कालमालाकृतगात्रभूषः ।
संरक्तनेवा मदघूर्णिताक्षो योगी ययो देशिकवासभूमिम् ।। ३० ॥
शिष्येषु शिष्टेषु विदूरगेषु स्नानादिकार्याय विविक्तभाजि ।
श्रीदेशिकेन्द्रे तु सनन्दनाख्यभीत्या स्वदेहं व्यवधाय गूढे ॥ ३१ ।।
तं भैरवाकारसुदीक्ष्य देशिकस्त्यक्तुं शरीरं व्यधित स्वयं मनः ।
आत्मानमात्मन्युदयुक्त यो जपन् समाहितात्मा करणानि संहरन् ।
तं भैरवोऽलोकत लोकपूज्यं स्वसौख्यतुच्छीकृतदेवराज्यम् ।
योगीशमासादितनिर्विकल्पं सनत्सुजातप्रभृतेरनल्पम् ॥ ३३ ॥
जत्रुप्रदेशे चिबुकं निधाय व्यात्तास्यमुत्तानकरौ निधाय ।
जानूपरि प्रेक्षितनासिकान्तं विलोचने सामि निमील्य कान्तम् ॥३४॥
आसीनमुच्चीकृतपूर्वगात्रं सिद्धासने शेषितबोधमात्रम् ।
चिन्मानविन्यस्तहृषीकवर्ग समाधिविस्मारितविश्वसर्गम् ॥ ३५ ॥
विलोक्य तं हन्तुमपास्तशङ्कः स्वबुद्धिपूर्वार्जिततीव्रपङ्कः।
प्रापोद्यतासिः सविधं स यावद्विज्ञातवान् पद्मपदोऽपि तावत् ॥ ३६॥
त्रिशूलमुबम्य निहन्तुकामं गुरुं यतात्मा समुदेक्षतान्तः ।
स्थितश्चुकोप ज्वलिताग्निकल्पः स पद्मपादः स्वगुरोहितेषी ॥ ३७॥
स्मरन्नथैष स्मरदातिहारि प्रह्लादवश्यं परमं महस्तत् ।
स मन्त्रसिद्धो नृहरे सिंहो भूत्वा ददर्शोग्रदुरीहचेश्याम् ॥ ३८ ॥
स तत्क्षणक्षुब्धनिजस्तभावः प्रवृद्धरुडू विस्मृतमय॑मावः ।
आविष्कृतात्युग्रनृसिंहभावः समुत्पपातातुलितप्रभावः ॥ ३९ ॥
सटाच्छटास्फोटितमेघसङ्घस्तीवावत्रासितभृतसङ्घः ।
संवेगसंमूञ्छितलोकसङ्घः किमेतदित्याकुलदेवसङ्घः ॥ ५० ।।
Comments
Post a Comment