श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 157
आकर्ण्य तां पद्मपदस्य वाणीमानन्दमनैरखिलैरभावि ।
जगर्ज चोचैर्जगदण्डमाण्डं भून्ना स्वधाना दलयन् नृसिंहः ॥ ५२ ॥
ततस्तदा टचलसमाधिः स्वात्मप्रबोधोन्मथितन्युपाधिः ।
उन्मील्य नेत्रे विकरालवक्त्रं व्यलोकयन्मानवपञ्चवक्त्रम् ॥ ५३॥
चन्द्रांशुसोदर्यसटाजटालं तार्तीयनेत्राजकननिटालम् ।
सहोद्यदुष्णांशुसहस्रभासं विध्यण्डविस्फोटकदट्टहासम् ॥ ५४॥
नखाग्रनिर्भिन्नकपालिवक्षःस्थलोचलच्छोणितपङ्किलाङ्गम् ।
श्रीवत्सवत्सं गलबैजयन्तीश्रीरत्नसंस्पर्धितदन्त्रमालम् ॥ ५५॥
सुरासुरवासकरातिधोरस्वाकारसारव्यथिताण्डकोशम् ।
दंष्ट्राकरालानननिर्यदमिज्वालालिसंलीढनभोवकाशम् ॥ ५६ ॥
स्वरोमक्षोद्तविस्फुलिङ्गपचारसंदीपितसर्वलोकम् ।
जम्भविडुज्जृम्भितशम्भुदम्भसंस्तम्भनारम्भकदन्तपेषम् ॥ ५७॥
मा भूदकाण्डे प्रलयो महात्मन् कोपं नियच्छेति गृणद्भिरारात् ।
ससाध्वसेः प्राञ्जलिभिः सगात्रकम्पैर्विरिञ्च्यादिभिरर्यमानम् ।। ५८॥
विलोक्य विद्युच्चपलोग्रजिह्व यतिक्षितीशः पुरतो नृसिंहम् ।
अभीतिरैडिष्ट तदोपकण्ठं स्थितोऽपि हर्षाश्रुपिनद्धकण्ठः ॥ ५९ ॥
नरहरे हर कोपमनर्थदं तव रिपुर्निहतो भुवि वर्तते ।
कुरु कृपां मयि देव सनातनी जगांदेदं भयमेति भवद्दशा ॥६॥
तव वपुः किल सचमुदाहृतं तव हि कोपनमण्वपि नोचितम् ।
तदिह शान्तिमवाप्नुहि शर्मणे हरगुणं हरिराश्रयसे कथम् ॥ ११ ॥
सफलभीतिषु दैवतमस्मरन् सकलभीतिमपोह्य सुखी पुमान् ।
भवति किं प्रवदामि तवेक्षणे परमदुर्लभमेव तवेक्षणम् ॥ ६२ ॥
Comments
Post a Comment