श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 161
यो मन्दरागं दधदादितेयान् सुधाभुजः स्मातनुते विषादी।
स्वामदिलीलोचितचारुमूर्ते कृपामपारां स भवान् विधत्ताम् ॥१०॥
उल्लासयन्यो महिमानमुच्चैः स्फुरद्वराहीशकलेबरोऽभूत् ।
तस्मै विदध्मः करयोरजस्रं सायन्तनाम्भोरुहसामरस्यम् ॥ ११ ॥
समावहन केसरितां वरा यः सुरद्विषत्कुञ्जरमाजघान ।
प्रह्लादमुल्लासितमादधानं पञ्चाननं तं प्रणुमः पुराणम् । १२ ॥
उदैत्तु बल्याहरणाभिलाषो यो वामनो हायजिनं वसानः ।
तपांसि कान्तारहितो व्यतानीदाधोऽवतादाश्रमिणामयं नः॥१३॥
येनाधिकोद्यत्तरवारिणाऽऽशु जितोऽर्जुनः सङ्गरङ्गभूमौ ।
नक्षतनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथाः॥१४॥
विलासिनाऽलीकभवेन धाम्ना कामं द्विषन्तं स दशास्यमस्यन् ।
देवो धरापत्यकुचोष्मसाक्षी देयादमन्दात्ममुखानुभूतिम् ॥ १५ ॥
उत्तालकेतुः स्थिरधर्ममूर्तिहालाहलस्वीकरणोग्रकण्ठः ।
स रोहिणीशानिशचुम्ब्यमाननिजोत्तमाङ्गोऽवतु कोऽपि भूमा ॥१६॥
विनायकनाऽऽकलिताहितापं निषेदुषोत्सङ्गभुवि प्रहष्यन् ।
यः पूतनामोहकचित्तवृत्तिरव्यादसों कोऽपि कलापभूषः ॥ १७ ॥
पाठीनकेतोर्जयिने प्रतीतसर्वज्ञभावाय दयैकसीग्ने।
प्रायः क्रतुद्वैपकतादराय बोधैकधाम्ने स्पृहयामि भन्ने ।। १८ ॥
ध्यतीत्य चेतो विषयं जनानां विद्योतमानाय तमोनिहन्ते ।
भने सदावासकृताशयाय भ्यासि मे सन्तुतमो नमासि ॥ १९ ॥
वृषाकपायीवरयोः सपर्या वाचाऽतिमोचारसयेति तन्वन् ।
अनिप्रवीरो मुदितात्मकामो मूकाम्बिकायाः सदन प्रतस्थे ॥ २० ॥
Comments
Post a Comment