श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 162

अङ्के निधाय व्यसुमात्मजातं महाकुलौ हन्त मुहुः प्ररुय ।

तदेकपुत्रौ द्विजदम्पती स दृष्ट्रा दयाधानतया शुशोच ॥ २१॥

अपारमञ्चत्यथ शोकमस्मिन्नभूयतोचैरशरीरवाचा ।

जायेत संरक्षितुमक्षमस्य जनस दुःखाय परं दयेति ॥ २२ ॥

माकर्ण्य वाणीमशरीरिणी तामसाविति व्याहरति स्म विज्ञः।

जगत्त्रयीरक्षणदक्षिणस्य सत्यं तवैकस्य तु शोभते सा ॥ २३ ॥

इतीरयत्येव यतो द्विजातेः सुतः सुखं सुप्त इवोदतिष्ठत् ।

समीपगैः सर्वजनीनमस्य चारित्र्यमालोक्य विसिष्मिये च ॥ २४ ॥

रम्योपशल्यं कृतमालसालरसालहितालतमालशालैः ।

सिद्धिस्थलं साधकसंपदा तन्मूकाम्बिकायाः सदन जगाहे ॥२५॥

उच्चावचानन्दजवाष्पाचकतीर्णरोमाञ्चमुदारभक्तिः।

अम्बामहापारकपावलम्मा सभावयनस्तुत निस्तुलं सः ॥ २६ ॥

पारेपरावे पदपद्मभासु षष्ट्युत्तरं ते त्रिशतं तु भासः।

आवश्य वस्यक सुधामराचीनालोकवन्त्यादधते जगन्ति ॥ २७॥

अन्तश्चतुःषष्ट्यपचारमेन्तेवसत्काण्डपटप्रदानैः।

आवाहनावस्तव दाम नित्यमाराधनामादधते महान्तः ॥ २८ ॥

अम्बोपचारेष्वविसिन्धुषष्टि शुद्धाज्ञयोः शुद्धिदमेकमेकम् ।

सहलपत्र द्वितय च साधु तन्वान्त धन्यास्तव तोषहेतोः ॥ २९ ॥

आराधनं ते बहिरेव केचिदन्तर्बहिश्चैकतमेऽन्तरेव ।

अन्ये परे त्वम्ब कदापि कुथु व त्वदक्यानुभवकनिष्ठाः ॥३०॥

अष्टोत्तरविंशति या कलास्ताः स्वाः कलाः पञ्च निवृत्तिमुख्या।

तासामुपर्यम्म तवांघ्रिपनं विद्योतमानं विबुधा भजन्ते ॥ ३१ ॥

Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152