श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 162
अङ्के निधाय व्यसुमात्मजातं महाकुलौ हन्त मुहुः प्ररुय ।
तदेकपुत्रौ द्विजदम्पती स दृष्ट्रा दयाधानतया शुशोच ॥ २१॥
अपारमञ्चत्यथ शोकमस्मिन्नभूयतोचैरशरीरवाचा ।
जायेत संरक्षितुमक्षमस्य जनस दुःखाय परं दयेति ॥ २२ ॥
माकर्ण्य वाणीमशरीरिणी तामसाविति व्याहरति स्म विज्ञः।
जगत्त्रयीरक्षणदक्षिणस्य सत्यं तवैकस्य तु शोभते सा ॥ २३ ॥
इतीरयत्येव यतो द्विजातेः सुतः सुखं सुप्त इवोदतिष्ठत् ।
समीपगैः सर्वजनीनमस्य चारित्र्यमालोक्य विसिष्मिये च ॥ २४ ॥
रम्योपशल्यं कृतमालसालरसालहितालतमालशालैः ।
सिद्धिस्थलं साधकसंपदा तन्मूकाम्बिकायाः सदन जगाहे ॥२५॥
उच्चावचानन्दजवाष्पाचकतीर्णरोमाञ्चमुदारभक्तिः।
अम्बामहापारकपावलम्मा सभावयनस्तुत निस्तुलं सः ॥ २६ ॥
पारेपरावे पदपद्मभासु षष्ट्युत्तरं ते त्रिशतं तु भासः।
आवश्य वस्यक सुधामराचीनालोकवन्त्यादधते जगन्ति ॥ २७॥
अन्तश्चतुःषष्ट्यपचारमेन्तेवसत्काण्डपटप्रदानैः।
आवाहनावस्तव दाम नित्यमाराधनामादधते महान्तः ॥ २८ ॥
अम्बोपचारेष्वविसिन्धुषष्टि शुद्धाज्ञयोः शुद्धिदमेकमेकम् ।
सहलपत्र द्वितय च साधु तन्वान्त धन्यास्तव तोषहेतोः ॥ २९ ॥
आराधनं ते बहिरेव केचिदन्तर्बहिश्चैकतमेऽन्तरेव ।
अन्ये परे त्वम्ब कदापि कुथु व त्वदक्यानुभवकनिष्ठाः ॥३०॥
अष्टोत्तरविंशति या कलास्ताः स्वाः कलाः पञ्च निवृत्तिमुख्या।
तासामुपर्यम्म तवांघ्रिपनं विद्योतमानं विबुधा भजन्ते ॥ ३१ ॥
Comments
Post a Comment