श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 163
कालानिरूपेण जगन्ति दग्ध्वा सुधात्मनाऽऽप्लाव्य समुत्सृजन्तीम् ।
ये त्वामवन्तीममृतात्म व ध्यायान्त ते सृष्टिकृतो भवन्ति ।। ३२ ।।
ये प्रत्यभिज्ञामतपारविज्ञा धन्यास्तु ते प्राविदितां गुरूकत्या ।
सैवाहमस्मीति समाधियोगात् त्वां प्रत्यभिज्ञाविषयं विदध्यः ॥३३॥
आधारचक्रे च तदुत्तरस्मिन्नाराधयन्त्येहिकभोगलुब्धाः ।
उपासत ये मणिपूरक त्वां वासस्तु तेषा नगराद् बहिस्ते ॥ ३४ ॥
अनाहते देवि भजन्ति ये त्वामन्तः स्थितिस्त्वनगरे तु तेषाम् ।
शुद्धाज्ञयोर्ये तु भजन्ति तेषां क्रमण सामीप्यसमानभोगौ ॥ ३५ ॥
सहस्रपत्रे ध्रुवमण्डलाख्ये सरारुहे त्वामनुसंदधानः।
चतुर्विधेश्यानुभवास्तमोहः सायुज्यमम्बाश्चात साधकेन्द्रः॥३६ ।।
श्रीचक्राट्चक्रको पुरोऽथ श्रीचक्रमन्योरपि चिन्तितैक्यम् ।
चक्रस्य मन्त्रस्य ततस्तवक्य क्रमादनुध्यायति साधकेन्द्रः ।। ३७॥
इति तां वचनैः प्रपूज्य भैक्षौदनमात्रेण स तुष्टिमान् कृतार्थः ।
बहुसाधकसस्तुतः कियन्तं समये तत्र निनाय शान्तचेताः ॥३८॥
श्रयति स्म ततोऽग्रहारक श्रीवलिसंज्ञं स कदाचन खशिष्यैः।
अनुगेहहुतामिहात्र दुग्धप्रसरत्पावनगन्धलोभनीयम् ॥ ३९ ॥
यतोऽपत्यहिरेव याति भ्रान्त्वा प्रदेशं शनकैरलब्ध्वा ।
रया द्विजावानजकर्मनिष्ठान दूरानिषिद्धं त्यजतोऽप्रमत्तान् ॥ ४० ॥
यस्मिन् सहस्रद्वितयं जनानामग्न्याहितानां श्रुतिपाठकानाम् ।
बसत्यवश्यं श्रुतिचोदितासु क्रियासु दक्षं प्रथितानुभावम् ॥ ४१ ॥
मध्ये वसन् यस्य करोति भूषां पिनाकपाणिगिरिजासहायः ।
हारस्य यष्टे स्तरलो यथा वे रात्ररिवन्दुगेगनाधिरूढः ॥ ४२ ॥
Comments
Post a Comment