श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 165

इतीरयित्वोपरते च विप्रे पप्रच्छ तं शङ्करदेशिकेन्द्रः ।

कस्त्वं किमेवं जडवत् प्रवृत्तः स चाब्रवीद्वालवपुर्महात्मा ॥५४॥

नाहं जडः किन्तु जडः प्रवर्तते मत्संनिधानेन न सन्दिहे गुरो।

षडूर्मिषड्भावविकारवर्जितं सुखैकतानं परमस्मि तत्पदम् ॥ ५५ ।।

ममेव भूयादनुभूतिरेषा मुमुक्षुवर्गस्य निरूप्य विद्वन् ।

पद्यः पादशभिर्बभाषे चिदात्मतत्त्वं विधुतप्रपञ्चम् ।। ५६॥

प्रकाशयन्ते परमात्मतत्वं करस्थधात्रीफलवद्यदेकम् ।

श्लोकास्तु हस्तामलकाः प्रसिद्धास्तत्कर्तुराख्यापि तथैव वृत्ता ।।५७।।

विनोपदेशं स्वत एव जातः परात्मबोधो द्विजवर्यसूनोः ।

व्यस्मेष्ट संप्रेक्ष्य स देशिकेन्द्रो न्यधात्स्वहस्तं कृपयोत्तमाङ्गे ॥५८॥

सुते निवृत्ते वचनं बभाषे स देशिकेन्द्रः पितरं तदीयम् ।

वस्तुं न योग्यो भवता सहायं न तेऽमुनार्थो जडिमास्पदेन ॥ ५९॥

पुराभवाभ्यासवशेन स स वेत्ति सम्यङ् न च वक्ति किंचित् ।

नाचेत्कथं स्वानुभवेकगर्भपद्यानि भाषेत निरक्षरास्यः ।। ६॥

न सक्तिरस्यास्ति गृहादिगोचरा नात्मीयदेहे भ्रमतोऽस्य विद्यते।

तादात्म्यताऽन्यत्र ममेति वेदनं यदा न सा स्खे किमु बाद्यवस्तुषु ॥

इतीरयित्वा भगवान् द्विजात्मजं ययो गृहीत्वा दिशभीप्सितां पुनः ।

विप्रोऽप्यनुव्रज्य ययो स्वमन्दिरं कियत्प्रदेशं स्थिरधीबहुश्रुतः ।। ६२ ।।

ततः शतानन्दमहेन्द्रपूर्वैः सुपर्ववृन्दैरुपगीयमानः ।

पद्माधिमुख्यैः सममाप्तकामक्षोणीपतिः शृङ्गगिरि प्रतस्थे ॥ ६३ ।।

यत्राधुनाऽप्युत्तममृष्यशृङ्गस्तपश्चरत्यात्मभूदन्तरङ्गः ।

संस्पर्शमात्रेण वितीर्णभद्रा विद्योतते यत्र च तुङ्गभद्रा ॥ ६४॥

Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152