श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 166
अभ्यागतार्कल्पितकल्पशाखाः कूलङ्कपाधीतसमस्तशाखाः ।
इज्याशतैर्यत्र समुल्लसन्तः शान्तान्तराया निवसन्ति सन्तः । ६५ ॥
अध्यापयामास स भाष्यमुख्यान् ग्रन्थान्निजास्तत्र मनीषिमुख्यान ।
आकर्णनप्राप्यमहापुमर्थानादिष्ट विद्याग्रहणे समर्थान् ॥ ६६ ॥
मन्दाक्षननं कलयनशेष पराणुदत् प्राणितमांस्यशेषम् ।
निरस्तजीश्वरयोर्विशेष व्याचष्ट वाचस्पतिनिर्विशेषम् ॥ ६७ ॥
प्रकल्प्य तत्रेन्द्रविमानकल्यं प्रासादमाविष्कृतसर्वशिल्पम् ।
प्रवर्तयामास स देवतायाः पूजामजाद्यैरपि पूजितायाः ॥ ६८ ॥
या शारदाम्बेत्यभिधां वहन्ती कृतां प्रतिज्ञा प्रतिपालयन्ती।
अद्यापि शृङ्गेरिपुरे वसन्ती प्रद्योततेऽभीष्टवरान् दिशन्ती ॥ ६९ ।।
चित्तानुवर्ती निजधर्मचारी भूतानुकम्पी तनुवाग्विभूतिः।
कश्चिद्विनेयोऽजनि देशिकस्य यं तोटकाचार्यमुदाहरन्ति ॥ ७० ॥
स्नात्वा पुरा क्षिपति कम्बलवस्त्र मुख्यै-
रुच्चासनं मृदु समं स ददाति नित्यम् ।
संलक्ष्य दन्तपरिशोधनकाष्ठमण्यं
बाह्यादिकं गतवते सलिलादिकं च ॥ ७ ॥
श्रीदेशिकाय गुरवे तनुमा वस्त्रं विश्राणयत्यनुदिनं विनयोपपन्नः ।
श्रीपादपद्मयुगमर्दनकोविदश्च छायेव देशिकमसौ भृशमन्वयाद्यः॥
गुरोः समीपे न तु जातु नृम्भते प्रसारयन्नो चरणौ निषीदति ।
नोपेक्षते वा बहु वा न भाषते न पृष्ठदर्शी पुरतोऽस्य तिष्ठति ॥७३॥
तिष्ठन् गुरौ तिष्ठति संप्रयाते गच्छन् ब्रुवाणे विनयेन शृण्वन् ।
अनुच्यमानोऽपि हितं विधत्ते यचाहितं तच्च तनोति नास्य ॥ ७४ ॥
Comments
Post a Comment