श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 167

तस्मिन् कदाचन विनेयवरे स्वशाटीप्रक्षालनाय गतवत्यपवर्तनीगा।

व्याख्यानकर्मणि तदागममीक्षमाणो भक्तेषु वत्सलतया विललम्ब एषः॥

शान्तिपाठमथ कर्तुमसंख्येषधतेषु स विनेयवरेषु ।

स्थीयतां गिरिरपि क्षणमात्रादेष्यतीति समुदीरयति स्म ॥ ७६ ॥

तां निशम्य निगमान्तगुरूक्तिं मन्दधीरनधिकार्यपि शास्त्रे ।

किं प्रतीक्ष्यत इति स्म ह मित्तिः पद्मपादमुनिना समदर्शि ॥ ७७॥

तस्य गर्वमपहर्तुमखवं खाश्रयेषु करुणातिशयाच ।

व्यादिदेश स चतुर्दश विद्याः सद्य एव मनसा गिरिनाम्ने ॥ ७८ ॥

सोऽधिगम्य तदनुग्रहमत्र्यं तत्क्षणेन विदिताखिलविद्यः ।

ऐट्ट देशिकवरं परतत्वव्यञ्जकर्ललिततोटकवृत्तः ॥ ७९ ॥

श्रीमद्देशिकपादपङ्कजयुगीमूला तदेकाश्रया

तत्कारुण्यसुधावसेकसहिता तद्भक्तिसल्ली।

हृद्यं तोटकवृत्तवृन्तरुचिरं पद्यात्मकं सत्फलं

लेभे भोक्तुमनोतिसत्तमशुकैरास्वाद्यमानं मुहुः ॥ ८॥

येनौनत्यमवापिता कृतपदा कामं क्षमायामियं

निःश्रेणिः पदमुन्नतं जिगमिषोोम स्पृशन्ती परम् ।

वंश्या काप्यधरीकृतत्रिभुवनश्रेणी गुरूणां कथं

सेवा तस्य यतीशितुर्न विरलं कुर्वीत गुर्वी तमः ॥ ८१॥

अथ तोटकवृत्तपद्यजातैरयमज्ञातसुपर्वसूक्तिकोपि ।

दययैव गुरोस्त्रयीशिरोऽथं स्फुटयनैक्षि विचक्षणः सतीयः ॥ ८२ ॥

अथ तस्य बुधस्य वाक्यगुम्फ निशमय्यामृतमाधुरीधुरीणम् ।

जलजांघ्रिमुखाः सतीर्थ्याः स्मयमन्वस्य सविस्मया बभूवुः ॥८३॥

Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152