श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 167
तस्मिन् कदाचन विनेयवरे स्वशाटीप्रक्षालनाय गतवत्यपवर्तनीगा।
व्याख्यानकर्मणि तदागममीक्षमाणो भक्तेषु वत्सलतया विललम्ब एषः॥
शान्तिपाठमथ कर्तुमसंख्येषधतेषु स विनेयवरेषु ।
स्थीयतां गिरिरपि क्षणमात्रादेष्यतीति समुदीरयति स्म ॥ ७६ ॥
तां निशम्य निगमान्तगुरूक्तिं मन्दधीरनधिकार्यपि शास्त्रे ।
किं प्रतीक्ष्यत इति स्म ह मित्तिः पद्मपादमुनिना समदर्शि ॥ ७७॥
तस्य गर्वमपहर्तुमखवं खाश्रयेषु करुणातिशयाच ।
व्यादिदेश स चतुर्दश विद्याः सद्य एव मनसा गिरिनाम्ने ॥ ७८ ॥
सोऽधिगम्य तदनुग्रहमत्र्यं तत्क्षणेन विदिताखिलविद्यः ।
ऐट्ट देशिकवरं परतत्वव्यञ्जकर्ललिततोटकवृत्तः ॥ ७९ ॥
श्रीमद्देशिकपादपङ्कजयुगीमूला तदेकाश्रया
तत्कारुण्यसुधावसेकसहिता तद्भक्तिसल्ली।
हृद्यं तोटकवृत्तवृन्तरुचिरं पद्यात्मकं सत्फलं
लेभे भोक्तुमनोतिसत्तमशुकैरास्वाद्यमानं मुहुः ॥ ८॥
येनौनत्यमवापिता कृतपदा कामं क्षमायामियं
निःश्रेणिः पदमुन्नतं जिगमिषोोम स्पृशन्ती परम् ।
वंश्या काप्यधरीकृतत्रिभुवनश्रेणी गुरूणां कथं
सेवा तस्य यतीशितुर्न विरलं कुर्वीत गुर्वी तमः ॥ ८१॥
अथ तोटकवृत्तपद्यजातैरयमज्ञातसुपर्वसूक्तिकोपि ।
दययैव गुरोस्त्रयीशिरोऽथं स्फुटयनैक्षि विचक्षणः सतीयः ॥ ८२ ॥
अथ तस्य बुधस्य वाक्यगुम्फ निशमय्यामृतमाधुरीधुरीणम् ।
जलजांघ्रिमुखाः सतीर्थ्याः स्मयमन्वस्य सविस्मया बभूवुः ॥८३॥
Comments
Post a Comment