श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 168
भक्त्युत्कर्षात प्रादुरासन्यतोऽस्मात्पधान्येवं तोटकाख्यानि सन्ति ।
तस्मादाहुस्तोटकाचार्यमेनं लोके शिष्टाः शिष्टवंश्यं मुनीन्द्रम् ।। ८४ ।।
अद्यापि तत्प्रकरणं प्रथितं पृथिव्यां तत्संज्ञया लघु महार्थमनल्पनीति ।।
शिष्टगृहीतमतिशिष्टपदानुविद्धं वेदान्तवेद्यपरतत्वनिवेदनं यत् ॥ ८५ ॥
तोटकाह्वयमवाप्य महर्षेः ख्यातिमाप स दिशासु तदादि ।
पद्मपादसदृशप्रतिभावान्मुख्यशिष्यपदवीमपि ले मे ॥ ८६ ॥
पुमर्थाश्चत्वारः किमुत निगमा ऋक्प्रभृतयः
प्रभेदा वा मुक्तेविमलतरसालोक्यमुखराः ।
मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा
विदुः शिष्यान् हस्तामलकमुखराञ्छङ्करगुरोः ॥ ८७॥
स्कारद्वारप्रधाणद्विरदमदसमुल्लोलकल्लोलभृङ्गी-
सङ्गीतोल्लासभङ्गीमुखरितहरितः संपदोऽकिपचानैः।
निठीव्यन्तेऽतिदुरादधिगतभगवत्पादसिद्धान्तकाष्ठा-
निष्ठासम्पद्विजृम्भनिरवधिसुखदस्वात्मलाभकलोभैः ॥ ८८!
समिन्धानो मन्थाचलमथितसिन्धूदरभव-
सुधाफेनामेनामृतरुचिनिभेनाऽत्मयशसा ।
निरन्धानो दृष्टया परमहह पन्थानमसतां
पराधृष्यैः शिष्यैररमत विशिष्यैष मुनिराट् ॥ ८९ ॥
इति श्रीमाधवीये तद्धस्तधान्यादिसंश्रयः
संक्षेपशङ्करजये सर्गोऽयं द्वादशोऽभवत् ॥
(आदितः श्लोकाः-१३१२)
Comments
Post a Comment