श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 168

भक्त्युत्कर्षात प्रादुरासन्यतोऽस्मात्पधान्येवं तोटकाख्यानि सन्ति ।

तस्मादाहुस्तोटकाचार्यमेनं लोके शिष्टाः शिष्टवंश्यं मुनीन्द्रम् ।। ८४ ।।

अद्यापि तत्प्रकरणं प्रथितं पृथिव्यां तत्संज्ञया लघु महार्थमनल्पनीति ।।

शिष्टगृहीतमतिशिष्टपदानुविद्धं वेदान्तवेद्यपरतत्वनिवेदनं यत् ॥ ८५ ॥

तोटकाह्वयमवाप्य महर्षेः ख्यातिमाप स दिशासु तदादि ।

पद्मपादसदृशप्रतिभावान्मुख्यशिष्यपदवीमपि ले मे ॥ ८६ ॥

पुमर्थाश्चत्वारः किमुत निगमा ऋक्प्रभृतयः

प्रभेदा वा मुक्तेविमलतरसालोक्यमुखराः ।

मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा

विदुः शिष्यान् हस्तामलकमुखराञ्छङ्करगुरोः ॥ ८७॥

स्कारद्वारप्रधाणद्विरदमदसमुल्लोलकल्लोलभृङ्गी-

सङ्गीतोल्लासभङ्गीमुखरितहरितः संपदोऽकिपचानैः।

निठीव्यन्तेऽतिदुरादधिगतभगवत्पादसिद्धान्तकाष्ठा-

निष्ठासम्पद्विजृम्भनिरवधिसुखदस्वात्मलाभकलोभैः ॥ ८८!

समिन्धानो मन्थाचलमथितसिन्धूदरभव-

सुधाफेनामेनामृतरुचिनिभेनाऽत्मयशसा ।

निरन्धानो दृष्टया परमहह पन्थानमसतां

पराधृष्यैः शिष्यैररमत विशिष्यैष मुनिराट् ॥ ८९ ॥

इति श्रीमाधवीये तद्धस्तधान्यादिसंश्रयः

संक्षेपशङ्करजये सर्गोऽयं द्वादशोऽभवत् ॥

(आदितः श्लोकाः-१३१२)


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152