श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 169
ततः कदाचित् प्रणिपत्य भक्त्या सुरेश्वरार्यो गुरुमात्मदेशम्
शारीरकेऽत्यन्तगभीरभावे वृत्तिं स्फुट कर्तुमना जगाद ॥१॥
मम यत्करणीयमस्ति ते त्वमिमं मामनुशाध्यसंशयम् ।
तदिदं पुरुषस्य जीवितं यदयं जीवति भक्तिमान गुरौ॥ २ ॥
इतीरिते शिष्यवरेण शिष्यं प्रोचे गरीयानतिहृष्टचेताः ।
मत्कस्य भाष्यस्य विधेयमिष्टं निवन्धनं वार्तिकनामधेयम् ॥३॥
द्रष्टुं सतर्क भवदीयभाष्यं गम्भीरवाक्यं न ममास्ति शक्तिः ।
तथाऽपि भावत्ककटाक्षपाते यते यथाशक्ति निवन्धनाय ॥४॥
अस्त्वेवमित्यार्यपदाभ्यनुज्ञामादाय मूर्ना स विनिर्जगाम ।
अथाम्बुजाङ्ग्रेर्दयिताः सतीर्थ्यास्तं चित्सुखाद्या रहसीत्थमूचुः ॥५॥
योऽयं प्रयत्नः क्रियते हिताय हिताय नायं विफलत्वनर्थम् ।
प्रत्येकमेवं गुरवे निवेद्य बोद्धा स्वयं कर्मणि तत्परश्च ॥ ६॥
यः सार्वलौकिकमपीश्वरमीश्वराणां प्रत्यादिदेश बहुयुक्तिभिरुत्तरज्ञः ।
कमैव नाकनरकादिफलं ददाति नैवं परोऽस्ति फलदो जगदीशितेति ॥
प्रत्येकमस्य प्रलयं वदन्ति पुराणवाक्यानि स तस्य कर्ता ।
व्यासो मुनि मिनिरस्य शिष्यस्तत्पक्षपाती प्रलयावलम्बी॥८॥
गुरोध शिष्यस्य च पक्षभेदे कथं तयोः स्याद्गुरुशिष्यभावः ।
तथापि यद्यस्ति स पूर्वपक्षः सिद्धान्तभावस्तु गुरूक्त एव ॥९॥
Comments
Post a Comment