श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 170

आ जन्मनः स खलु कर्मणि योजितात्मा कुर्वन्नवास्थित इहानिशमेव कर्म।

ब्रूते परांश्च कुरुतावहिताः प्रयत्नात

स्वर्गादिकं सुखमवाप्स्यथ किं वृथाध्वे ॥ १० ॥

एवंविधेन क्रियते निवन्धनं यदि त्वदाज्ञामवलम्ब्य भाष्यके ।

भाष्यं परं कर्मपरं स योक्ष्यते मा च्यावि मूलादपि वृद्धिमिच्छता ॥

संन्यासमप्येष न बुद्धिपूर्वकं व्यधत्त वादे विजितो वो व्यधात् ।

तस्मान्न विश्वासपदं विभाति नो मा चीकरोऽनेन निबन्धनं गुरो ।।

यः शक्नुयात् कर्म विधातुमीप्सितं सोऽयं न कर्माणि विहातुमर्हति ।

यद्यस्ति संन्यासविधौ दुराग्रहो जात्यन्धमूकादिरमुष्य गोचरः ॥१३॥

एवं सदा भट्टमतानुसारिणो ब्रुवन्त्यसौ तन्मतपक्षपातवान् ।

एवं स्थिते योग्यमदो विधीयतां न नोऽस्ति निर्वन्धनमत्र किञ्चन।

पुरा किलास्मासु सुरापगायाः पारे परस्मिन् विचरत्सु सत्सु ।

आकारयामास भवानशेषान् भक्ति परिज्ञातुमिवास्मदीयाम् ।। १५ ॥

तदा तदाकये समाकुलेषु नावर्थमस्मासु परिभ्रमत्सु ।

सनन्दनस्त्वेष वियत्तटिन्या झरीमभिप्रस्थित एव तूर्णम् ॥ १६ ॥

अनन्यसाधारणमस्य भावमाचार्यवर्ये भगवत्यवेक्ष्य ।

तुष्टा त्रिवा कनकाम्बुजानि प्रादुष्करोति स्म पदे पदे च ।। १७ ॥

पदानि तेषु प्रणिधाय युष्मत्सकाशमागाघदयं महात्मा ।

ततोऽतितुष्टो भगवांश्चकार नाम्ना तमेनं किल पमपादम् ॥१८॥

स एव युष्मचरणारविन्दसेवाविनिर्धूतसमतभेदः ।

आजानसिछोईति सूत्रभाष्ये वृत्ति विधातुं भगवनगाधे ॥ १९ ॥

Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152