श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 172
आ जन्मनः संसृतिपाशमुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव ।
प्रफुल्लराजीवाने विहारी कथं रमेत क्षुरके मरालः ।।
विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदाप्रभृत्यत्र वसत्युदारः।
आ शैशवादात्मविलीनचेताः कथं प्रवर्तेत महाप्रबन्धे ॥३२॥
श्रुत्वेति पप्रच्छुरमुं विनेयाः स्वामिन् विनव श्रवणायुपायैः ।
अलन्ध विज्ञानमयं कथं वा भवानिदं साधु विदांकरोतु ।। ३३॥
तानत्रवीत् संयमिचक्रवर्ती कश्चित् पुरा यामुनतीवर्ती ।
बभूव सिद्धः किल साधुवृत्तः सांसारिकेभ्यः सुतरां निवृत्तः ॥ ३४ ॥
तस्यान्तिके काचन विप्रकन्या द्विहायनं जातु निवेश्य बालम् ।
क्षगं प्रतीक्षस्व शिशु द्विजेति स्नातुं सखीभिः सह निर्जगाम ॥ ३५ ॥
अनान्तरे दैववशात्स बालश्च इन्क्रम्पमागो निपपात नद्याम् ।
मृत तमादाय शिशुं तदीयाचक्रन्दुरुचैः पुरतो महर्षेः ।। ३६ ॥
आक्रोशमाकर्य मुनिः स तेषामत्यन्जखिनो निजयोगभूम्ना ।
प्राविक्षदङ्गं पृथुकस्य तस्य स एष हस्तामलकस्तपस्वी ॥ ३७॥
तस्मादयं वेद विनोपदेशं श्रशीरनन्ताः सकलाः स्मृतीश्च ।
सर्वाणि शास्त्राणि परं च तत्वमज्ञातमेतेन न किञ्चिदस्ति ॥ ३८॥
तत्ताहगात्मा न बहिःप्रवृत्तो नियोगमहत्ययमत्र वृत्तौ।
स मण्डनस्त्वर्हति बुद्धतत्वः सरस्वतीसाक्षिकसर्वविचः ।। ३९ ।।
तत्तादृशायुज्ज्वल कीर्तिराशिः समस्तशास्त्रार्णवपारदर्शी ।
आसादितो धर्महितः प्रयत्नात् स चेन रोचेत न दृश्यतेऽन्यः ॥ ४० ॥
अहं बहूनामनभीष्टकार्य न कारयिष्ये हि महानिबन्धे ।
किं चात्र संशीतिरभून्ममातो यदेककार्ये बहवः प्रतीपाः ।। ११ ।।
Comments
Post a Comment