श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 173
भवनिदेशाद्भगवन् सनन्दनः करिष्यते भाष्यनिबन्धमीप्सितम् ।
स ब्रह्मचर्यादुररीकृताश्रमो मतिप्रकों विदितो हि सर्वतः ॥ ४२ ॥
सनन्दनो नन्दयिता जनानां निवन्धमेकं विदधातु भाष्ये ।
न बार्तिकं तत्तु परप्रतिज्ञ व्यधात् प्रतिज्ञां स हि नूनदीक्षः ॥ ४३ ॥
आदिश्येत्थं शिष्यसङ्घ यतीन्द्रः प्रोवाचेत्य नूनमिर्धा रहस्तम् ।
भाष्ये भिक्षो मा कथा वार्तिकं त्वं नेमे शिष्याः सेहिरे दुर्विदग्धाः ।।
तात्पर्य ते गेहिधर्मेषु दृष्ट्वा तत्संस्कारं सांप्रतं शङ्कमानाः।
भाष्ये कृत्वा वार्तिक योजयेत्स भाष्यं प्राहुः स्वीयसिद्धान्तशेषम् ।।
नास्त्येवासावाश्रमस्तुर्य इत्थं सिद्धान्तोऽयं तावको वेदसिद्धः ।
द्वारि द्वास्थैर्वारिता भिक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ।। ४६ ॥
इत्याद्यां तो किंवदन्ती विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वय्यनल्पे ।
स्वातन्त्र्याचं ग्रन्थमेकं महात्मन् कृत्वा मह्यं दर्शयाध्यात्मनिष्ठम् ॥
विद्धन् यत्प्रत्ययः स्यादनीषां शिष्याणां नो ग्रन्थसंदर्शनेन ।
इत्युक्त्वेनं वार्तिक सूत्रभाष्ये नाभूद्धाहेत्याप खेदं च किञ्चित् ॥४८॥
शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसा-
वेनं स्वतन्त्रकृतिनिर्मितये न्ययुङ्क्त ।
नैष्कर्यसिद्धिमचिराद्विदधत्स चेत्थं
न्याय्यामविन्दत सुरेश्वरदेशिकाख्याम् ॥ ४९ ॥
नैष्कर्मसिद्धिमथ तां निखद्ययुक्ति निष्कर्मतत्वविषयावगतिप्रधानाम् ।
आयन्तहृयपदबन्धवतीमुदारामाद्यन्तमक्षततरां परितुष्टचेताः ॥५॥
प्रन्यं दृष्ट्वा मोदमानो मुनीन्द्रस्तं चान्येभ्यो दर्शयामास हृद्यम् ।
तेषां चाऽऽसीत्प्रत्ययस्तद्वदस्मिन् यच्चान्यस्तत्ववियः स नेति ॥५१॥
Comments
Post a Comment