श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 174
यत्राद्यापि श्रूयते मस्करीन्द्रनिष्कर्माऽऽत्मा यत्र नैष्कर्म्यसिद्धिः ।
तमानाऽयं ववृधे ग्रन्थवर्यस्तन्माहात्म्यात् सर्वलोकादृतोऽभूत् ॥५२॥
आचार्यवाक्येन विधित्सितेऽस्मिन् विनं यदन्ये व्यधुरुत्ससर्ज।
शापं कृतेऽस्मिन् कृतमप्युदारैः तद्वार्तिकं न प्रसरेत् पृथिव्याम् ॥ ५३॥
नैष्कर्म्यसिद्धयाख्यनिबन्धमेकं कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा ।
विश्वासमुक्त्वाऽथ पुनर्वभाषे स विश्वरूपो गुरुमात्मदेवम् ॥ ५४॥
न ख्यातिहेतोन च लाभहेतो प्यर्चनायै विहितः प्रबन्धः।
नोल्लचनीयं वचनं गुरूणां नोचने स्याद्गुरुशिष्यभावः ॥ ५५ ॥
पूर्व गृहित्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् ।
न यौवनं वृद्धमुपैति तद्वत् वजन् हि पूर्वस्थितिमोज्झ्य गच्छेत् ॥
अहं गृही नात्र विचारणीयं किं ते न पूर्व मन एव हेतुः।
वन्धे च मोक्षे च मनोविशुद्धो गृही भवेद्वाऽप्युत मस्करी का ॥ ५७ ॥
नास्त्येव चेदाश्रम उत्तमाऽऽदिः कथं च तत्प्राशिनिवृत्तिगामिनी ।
प्रतिश्रवौ नौ कथमल्पकालो न हि प्रतिज्ञा भगवनिरुद्धा॥५८॥
संभिक्षमाणा न लभन्त एव चेद्गृहप्रवेशं गुरुणा प्रवेशनम् ।
कथं हि भिक्षा विहिता ननूत्तमा को नाम लोकस्य मुखापिधायकः ॥
तत्वोपदेशाद्विदितात्मतत्वो व्यधामहं संन्यसनं कृतात्मा।
बिरागभावान्न पराजितस्तु वादो हि तत्वस्य विनिर्णयाय ॥६॥
पुरा गृहस्थेन मया प्रबन्धा नैयायिकादौ विहिता महार्थाः ।
इतः परं मे हृदयं चिकीर्घ वदंघिसेवां न विलय किञ्चित् ॥६॥
श्रद्धाम+तबद्धादरबुधपरिषच्छेमुषीसंनिषण्णा-
माग्दुर्वादिगर्वानलविपुलतरज्यालमालावलीदाम् ।
Comments
Post a Comment