श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 175
सिक्त्वा सूक्तामृतौधरहह परिहसञ्जीवयस्यद्य सयः
को वा सेवापटुः स्याद्रणतरणविधौ सद्गुरोर्नैव जाने ॥२॥
इत्युक्त्वोपरते सुरेश्वरगुरौ तेनैव शारीरके
नो संभाव्यहहात्र वार्तिकमिति प्रौढं शुगनि शनैः ।
धीराग्रयः शमयन्विवेकपयसा देवेश्वरेण त्रयी-
भाष्ये कारयितुं स वार्तिकयुगं बद्धादरोऽभून्मुनिः ॥ ६३ ॥
भावानुकारिमृदुवाक्यनिवेशितार्थ स्वीयैः पदैः सह निराकृतपूर्वपक्षम् ।
सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं दृष्ट्वाऽभिनन्ध परितोषवशादवोचत् ॥
सत्यं यदात्य विनयिन् मम याजुषी या
शाखा तदन्तगतभाष्यनिबन्ध इष्टः।
तद्वार्तिकं मम कृते भवता प्रणेयं
सञ्चेष्टितं परहितैकफलं प्रसिद्धम् ॥ ६५ ॥
तस्वदीया खलु काण्वशाखा ममापि तत्रास्ति तदन्तभाष्यम् ।
नद्वार्तिकं चापि विधेयमिष्टं परोपकाराय सतां प्रवृत्तिः ।। ६६ ॥
तत्रोभयत्र कुरु वार्तिकमातिहारि
कीति च याहि जितकार्तिकचन्द्रिकामाम् ।
मा शङ्कि पूर्वमिव दुःशठवाक्यरोधो
मद्वाक्यमेव शरणं व्रज मा विचारीः ॥ ३७॥
इत्यं स उक्तो भगवत्पदेन श्रीविश्वरूपो विदुषां वरिष्ठः ।
चकार भाष्यद्वयवार्तिके द्वे ह्याज्ञा गुरूणां ह्यविचारणीया ।। ६८
आज्ञा गुरोरनुचरैन हि लङ्घनीयेत्युक्त्वा तयोनिगमशेखरयोरुदारम् ।
निर्माय वार्तिकयुगं निजदेशिकाय निःसीमनिस्तुलनधीरुपदां चकार ॥
Comments
Post a Comment