श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 179
सुजनः सुजनेन संगतः परिपुष्णाति मतिं शनैः शनैः ।
परिपुष्टमतिर्षिवेकवाञ्शनकहेंयगुणं विमुञ्चति ॥ १९ ॥
यद्याग्रहोऽस्ति तव तीर्थनिषेवणायां
विघ्नो मयाऽत्र न खलु क्रियते पुमर्थे ।
चित्तस्थिरत्वगतये विहितो निषेधो
मा भूद्विशेषगमनं त्वतिदुःखहेतुः ॥ २० ॥
नैको मार्गो बहुजनपदक्षेत्रतीर्थानि याता
चौराध्वानं परिहर सुखं स्वन्यमार्गेण याहि ।
विप्राप्रयाणां वसतिविततिर्यत्र वस्तव्यमीष.
ओ चेत्सार्ध परिचितजनैः शीघ्रमुद्दिष्टदेशम् ॥ २१ ॥
सद्धिः सङ्गो विधेयः स हि सुखनिचय सूयते सजनाना.
मध्यात्मैक्ये कथास्ता घाटेतबहुरसाः श्राव्यमाणाः प्रशान्तः ।
कायक्लेशं विभिन्द्युः सततभयभिदः श्रान्तविश्रामवृक्षाः
खान्तश्रोत्राभिरामाः परिमृषिततृषः क्षोभितक्षुत्कलङ्काः ॥ २२ ।।
सत्सङ्गोऽयं बहुगुणयुतोऽप्येकदोषेण दुष्टो
यत् स्वान्तेऽयं तपति च परं सूयते दुःखजालम् ।
खल्वासङ्गो वसतिसमये शर्मदः पूर्वकाले
प्रायो लोके सततविमलं नास्ति निर्दोषमेकम् ।। २३ ॥
मार्गे यास्सन्न बहुदिवसान पाथसः संग्रही सा-
त्तस्मादोषो जिगमिषुपदप्राप्तिविघ्नस्ततः स्यात् ।
प्राप्योद्दिष्टं वस निरसनं तत्र कार्यस सिद्धे.
मलाभ्रंशोऽभिलषितपदप्राप्त्यभावोऽन्यथा हि ॥ २४ ॥
Comments
Post a Comment