श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 180
मार्गे चोरा निकृतिवषुषः संवसेयुः सहैव
छन्नात्मानो बहुविधगुणैः संपरीक्ष्याः प्रयत्नात् ।
देवान् वस्त्रं लिखितमथवा दुर्विधा नेतुकामा
विश्वासोऽतोऽपरिचितनृषु प्रोज्झनीयो न कार्यः ।।२५।।
मध्येमार्ग योजनाभ्यन्तरे वा तिष्ठेयुश्चेद्भिक्षवस्तेऽभिगम्याः ।
पूज्याः पूज्यास्तद्वयतिक्रान्तिरुपा श्रेयस्कार्य निष्फलीकर्तुमीशाः॥
यदापदपदं सदा यतिवर स्थितं वस्तु त-
न्मतं भज मितपचान् मनसि मा कृथाः प्राकृतान् ।
कपायकलुषाशयक्षतिविनिर्वृतः सन्मतः
सुखी चर मुखे चिरात् स्फुरति संततानन्दता ॥ २७ ॥
इत्थं गुरोर्मुखगुहोदितवाक्सुधां ता-
मापीय हृष्टहृदयः स मुनिः प्रतस्थे ।
प्रस्थाप्य तं गुरुवरोऽथ सुरेश्वराधैः
कालं कियन्तमनयत् सह शृङ्गकुधे ।। २८ ॥
अधिगम्य तदाऽऽत्मयोगशक्तेरनुभावेन निवेद्य चाऽऽअवेभ्यः ।
अवलम्बिततारकापथोऽसावचिरादन्तिकमाससाद मातुः ॥ २९ ॥
तत्राऽऽतुरां मातरमैक्षातौ ननाम तस्याश्वरगौ कृतात्मा ।
सा चैनपुदीक्ष्य शरीरतापं जहौ निदाघात इवाम्बुदेन ॥ ३० ॥
असावसङ्गोऽपि तदाऽऽर्द्रचेतास्तामाह मोहान्धतमोपहर्ता ।
अम्पायमस्त्या शुचं जहीहि प्रवहि किं ते करवाणि कृत्यम् ॥ ३१ ॥
दृष्टा चिरात् पुत्रमनामयं सा
हृष्टान्तरात्मा निजगाद मन्दम् ।
Comments
Post a Comment