श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 180

मार्गे चोरा निकृतिवषुषः संवसेयुः सहैव

छन्नात्मानो बहुविधगुणैः संपरीक्ष्याः प्रयत्नात् ।

देवान् वस्त्रं लिखितमथवा दुर्विधा नेतुकामा

विश्वासोऽतोऽपरिचितनृषु प्रोज्झनीयो न कार्यः ।।२५।।

मध्येमार्ग योजनाभ्यन्तरे वा तिष्ठेयुश्चेद्भिक्षवस्तेऽभिगम्याः ।

पूज्याः पूज्यास्तद्वयतिक्रान्तिरुपा श्रेयस्कार्य निष्फलीकर्तुमीशाः॥

यदापदपदं सदा यतिवर स्थितं वस्तु त-

न्मतं भज मितपचान् मनसि मा कृथाः प्राकृतान् ।

कपायकलुषाशयक्षतिविनिर्वृतः सन्मतः

सुखी चर मुखे चिरात् स्फुरति संततानन्दता ॥ २७ ॥

इत्थं गुरोर्मुखगुहोदितवाक्सुधां ता-

मापीय हृष्टहृदयः स मुनिः प्रतस्थे ।

प्रस्थाप्य तं गुरुवरोऽथ सुरेश्वराधैः

कालं कियन्तमनयत् सह शृङ्गकुधे ।। २८ ॥

अधिगम्य तदाऽऽत्मयोगशक्तेरनुभावेन निवेद्य चाऽऽअवेभ्यः ।

अवलम्बिततारकापथोऽसावचिरादन्तिकमाससाद मातुः ॥ २९ ॥

तत्राऽऽतुरां मातरमैक्षातौ ननाम तस्याश्वरगौ कृतात्मा ।

सा चैनपुदीक्ष्य शरीरतापं जहौ निदाघात इवाम्बुदेन ॥ ३० ॥

असावसङ्गोऽपि तदाऽऽर्द्रचेतास्तामाह मोहान्धतमोपहर्ता ।

अम्पायमस्त्या शुचं जहीहि प्रवहि किं ते करवाणि कृत्यम् ॥ ३१ ॥

दृष्टा चिरात् पुत्रमनामयं सा

हृष्टान्तरात्मा निजगाद मन्दम् ।


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152