श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 181
अस्यां दशायां कुशली मया वं
दिष्टयाऽसि दृष्टः किमतोऽस्ति कृस्यम् ॥ ३२॥
इतः परं पुत्रक गात्रमेतद्वोढुं न शक्नोमि जरातिशीर्णम् ।
संस्कृत्य शास्त्रोदितवर्मना त्वं सद्वृत्त मां प्रापय पुण्यलोकान् ।
सुतानुगां सूक्तिमिमां जनन्याः श्रुत्वाऽथ तस्यै सुखरूपमेकम् ।
मायामयाशेषविशेषशून्यं मानातिगं स्वप्रभमप्रमेयम् ॥ ३४ ।।
उपादिशब्रह्म परं सनातनं न यत्र हस्ताधिविभागकल्पना ।
अन्तर्बहिः संनिहितं यथाम्बरं निरामयं जन्मजरादिवर्जितम् ॥ ३५ ॥
सौम्यागुणे मे रमते न चित्तं रम्यं वद त्वं सगुणं तु देवम् ।
न बुद्धिमारोहति तत्त्वमात्रं यदेकमस्थूलमनण्वगोत्रम् ॥ ३६॥
निशम्य मातुर्वचनं दयालुस्तुष्टाव भक्त्या मुनिरष्टमूर्तिम् ।
वृत्तैर्युजङ्गोपपदैः प्रसन्नः प्रस्थापयामास स च स्वदूतान् ।। ३७ ॥
विलोक्य तान्शूलपिनाकहस्तान्नैवानुगच्छेयमिति अवन्त्याम् ।
तस्यां विसृज्यानुनयेन शैवानस्तौदथो माधवमादरेण ॥ ३८ ॥
भुजगाधिपभोगतल्पभाजं कमलाङ्कस्थलकल्पिताङ्घ्रिपद्यम् ।
अभिवीजितमादरेण नीलावसुधाभ्यां चलमानचामराभ्याम् ॥ ३९ ।।
विहिताञ्जलिना निषेव्यमाणं विनतानन्दकृताऽग्रतो रथेन ।
धृतमूर्तिभिरखदेवताभिः परितः पञ्चभिरश्चितोपकण्ठम् ॥ ४ ॥
महनीयतमालकोमलाङ्ग मुकुटीरनचयं महार्हयन्तम् ।
तरभानुशीलिताग्रं हरिनीलोपलभूधरं हसन्तम् ।। ४१ ॥
तत्तादृशं निजसुतोदितमम्बुजाक्षं
चित्ते दधार मृतिकाल उपागतेऽपि ।
Comments
Post a Comment