श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 182

चित्तेन कञ्जनयन हृदि भावयन्ती

तत्याज देहमवला किल योगिवत्सा ॥ ४२ ॥

ततः शरचन्द्रमरीचिरोचिर्विचित्रपारिप्लवकेतनाढ्यम् ।

विमानमादाय मनोज्ञरूपं प्रादुर्बभूवुः किल विष्णुदूताः ॥ ४३ ॥

बैमानिकांस्तानयनाभिरामानवेक्ष्य हृष्टा प्रशशंस पुत्रम् ।

विमानमारोप्य विराजमानमनायि तैः सा बहुमानपूर्वम् ॥ ४४ ।।

इयमचिरहर्वलक्षपक्षान् षड्दमाससमानिलार्कचन्द्रान् ।

चपलावरुणेन्द्रधातृलोकान् क्रमशोऽतीत्य परं पदं प्रपेदे ॥ ४५ ॥

स्वयमेव चिकीर्षुरेष मातुश्चरमं कर्म समाजुहाव बन्धून् ।

किमिहास्ति यते तवाधिकारः किनवेत्येनममी निनिन्दुरुच्चैः ॥ ४६॥

अनलं बहुधाऽर्थिताऽपि तस्मै वत नाऽऽदत्त च बन्धुता तदीया।

अथ कोपपरीवृतान्तरोऽसावखिलास्तानशपञ्च निर्ममेन्द्रः ॥४७॥

संचित्य काष्ठानि सुशुष्कवन्ति गृहोपकण्ठे धृततोयपात्रः ।

स दक्षिणे दोष्णि ममन्थ वह्निं ददाह तां तेन च संयतात्मा ॥४८॥

न याचिता वह्निमदुर्यदस्मै शशाप तान् स्वीयजनान् सरोषः ।

इतः परं वेदबहिष्कृतास्ते द्विजा यतीनां न भवेञ्च भिक्षा ॥४९॥

गृहोपकण्ठेषु च वः श्मशानमद्यप्रभृत्यस्त्विति तान् शशाप ।

अद्यापि तद्देशभवा न वेदमधीयते नो यमिनां च भिक्षा ॥५॥

तदाप्रभृत्येव गृहोपकण्ठेष्वासीत् श्मशानं किल हन्त तेषाम् ।

महत्सु धीपूर्वकूतापराधो भवेत् पुनः कस्य सुखाय लोके ।। ५१ ॥

शान्तः पुमानिति न पीडनमस्य कार्य

शान्तोऽपि पीडनवशाव क्रुधमुहेत् सः।

Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152