श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 182
चित्तेन कञ्जनयन हृदि भावयन्ती
तत्याज देहमवला किल योगिवत्सा ॥ ४२ ॥
ततः शरचन्द्रमरीचिरोचिर्विचित्रपारिप्लवकेतनाढ्यम् ।
विमानमादाय मनोज्ञरूपं प्रादुर्बभूवुः किल विष्णुदूताः ॥ ४३ ॥
बैमानिकांस्तानयनाभिरामानवेक्ष्य हृष्टा प्रशशंस पुत्रम् ।
विमानमारोप्य विराजमानमनायि तैः सा बहुमानपूर्वम् ॥ ४४ ।।
इयमचिरहर्वलक्षपक्षान् षड्दमाससमानिलार्कचन्द्रान् ।
चपलावरुणेन्द्रधातृलोकान् क्रमशोऽतीत्य परं पदं प्रपेदे ॥ ४५ ॥
स्वयमेव चिकीर्षुरेष मातुश्चरमं कर्म समाजुहाव बन्धून् ।
किमिहास्ति यते तवाधिकारः किनवेत्येनममी निनिन्दुरुच्चैः ॥ ४६॥
अनलं बहुधाऽर्थिताऽपि तस्मै वत नाऽऽदत्त च बन्धुता तदीया।
अथ कोपपरीवृतान्तरोऽसावखिलास्तानशपञ्च निर्ममेन्द्रः ॥४७॥
संचित्य काष्ठानि सुशुष्कवन्ति गृहोपकण्ठे धृततोयपात्रः ।
स दक्षिणे दोष्णि ममन्थ वह्निं ददाह तां तेन च संयतात्मा ॥४८॥
न याचिता वह्निमदुर्यदस्मै शशाप तान् स्वीयजनान् सरोषः ।
इतः परं वेदबहिष्कृतास्ते द्विजा यतीनां न भवेञ्च भिक्षा ॥४९॥
गृहोपकण्ठेषु च वः श्मशानमद्यप्रभृत्यस्त्विति तान् शशाप ।
अद्यापि तद्देशभवा न वेदमधीयते नो यमिनां च भिक्षा ॥५॥
तदाप्रभृत्येव गृहोपकण्ठेष्वासीत् श्मशानं किल हन्त तेषाम् ।
महत्सु धीपूर्वकूतापराधो भवेत् पुनः कस्य सुखाय लोके ।। ५१ ॥
शान्तः पुमानिति न पीडनमस्य कार्य
शान्तोऽपि पीडनवशाव क्रुधमुहेत् सः।
Comments
Post a Comment