श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 183
शीतः सुखोऽपि मथितः किल चन्दनद्रु-
स्तीबाहुताशजनको भवति क्षणेन ।। ५२ ॥
यद्यप्यशास्त्रीयतया विभाति तेजस्विनां कर्म तथाऽप्यनिन्द्यम् ।
विनिन्द्यकृत्यं किल भार्गवस्य ददुः स्वपुत्रान् कतिचिढकाय ।। ५३॥
इति स्वजननीमसौ मुनिजनैरपि प्रार्थितां
पुनः पतनवर्जितामतनुसौरच्यमन्दोहिनीम् ।
यतिक्षितिपतिगति वितमसं स नीत्वा तत-
स्ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले ॥ ५४॥
अथ तत्सहायजलजांघ्रथुपागमेच्छुरभीप्सितेऽत्र विललम्ब एषकः ।
जलजांघ्रिरप्यथ पुरा निजाज्ञया कृतवानुदीच्यवहुतीर्थसेवनम् ॥ ५५॥
आसमाद शनर्दिशं मुनेयस्य जन्म वसुधाघटी स्मृता।
सा श्रुतिः सकलरोगनाशिनी योऽपिचजलधिमेकबिन्दुवत् ॥ ५६ ।।
अद्राक्षीत्सुभगाहिभूषिततर्नु श्रीकालहस्तीश्वरं
लिङ्गे सन्निहितं दधानमनिशं चान्द्री कलां मस्तके।
पार्वत्या करुणारसामनसाऽऽश्लिष्टं प्रमोदास्पदं
देवैरिन्द्रपुरोगमैजय जयेत्याभाष्यमाणं मुनिः ॥ ५७ ॥
स्नात्वा सुवर्णमुखरीसलिलाशयेऽन्त-
गत्वा पुनः प्रणमति स्म शिवं भवान्या ।
आनर्च भावकुसुमैर्मनसा नुनाव
स्तुत्वा च तं पुनरयाचत तीर्थयात्राम् ॥५८॥
लब्ध्वाऽनुज्ञां तज्ज्ञराट् कालहस्तिक्षेत्रात् काञ्चीक्षेत्रमागात्पवित्रम् ।
संसाराब्धि संतितीर्षोः प्रसिद्धं वृद्धाः प्राहुर्यद्धि लोके यमुष्मिन् ।
Comments
Post a Comment