श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 184

ततकाम्राधीश्वरं विश्वनाथ नत्वा गम्यं स्वीयभाग्यातिशीत्या।

देवी धामान्तर्गतामन्तकारेहदि रुद्रस्येव जिज्ञासमानाम् ॥६॥

कल्लालेशं द्राक्ततो नातिदूरे लक्ष्मीकान्तं संवसन्तं पुराणम् ।

कारुण्याद्रस्वान्तमन्तादिशून्यं दृष्टा देवं संतुतोषैकभक्त्या ॥१॥

पुण्डरीकपुरमाययौ मुनियंत्र नृत्यति सदाशिवोऽनिशम् ।

वीक्षते प्रकृतिरादिमा हृदा पार्वतीपरिणतिः शुचिस्मिता ॥ ६२ ॥

ताण्डवं मुनिजनोऽत्र वीक्षते दिव्यचक्षुरमलाशयोऽनिशम् ।

जन्ममृत्युभयभेदि दर्शनानेत्रमानसविनोदकारकम् ।। ६३ ॥

कि चात्र तीर्थमिति भिक्षुगणेन कश्चिन्

पृष्टोऽब्रवीच्छिवपदाम्बुजसक्तचित्तः ।

संप्रार्थितः करुणयाऽस्मरदत्र गङ्गा

देवोऽथ संन्यधित दिव्यसरित् सुतीर्थम् ॥ ६४ ॥

शिवाज्ञयाऽभूदिति तीर्थमेतच्छिवस्य गङ्गां प्रवदन्ति लोके।

स्नानादमुध्यां विधुतोरुपापाः शनैः शनैस्ताण्डवमीक्षमाणाः ॥५॥

शिवस्य नाट्यश्रमकर्शितस्य श्रमापनोदाय विचिन्तयन्ती।

शिवेति गङ्गापरिणामगाऽभूत्ततोऽथवैतत्प्रथितं तदाख्यम् ॥ ६६ ।।

नृत्यत्तीरहतस्खलजलगतेः पर्यापतद्विन्दुकं

पावें स्वाव मतेविनोदवशतो यजनुकन्यापयः।

नृत्यं तन्वति धूर्जटौ विगलितं प्रेङ्खजटामण्डला-

तेनैतच्छिवजाह्नवीति कथयन्त्यन्ये विपश्चिजनाः ॥६७॥

सायं स्नायं तीर्थवर्येऽत्र नित्यं वीक्षं वीक्षं देवपादाब्जयुग्मम् ।

शोधं शोधं मानसं मानवोऽसौ वीक्षेतेदं ताण्डवं शुद्धचेताः ॥ ६८॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152