श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 185

शुद्धं महवर्णयितुं क्षमेत पुण्यं पुरारिः स्वयमेव तस्य ।

निमज्ज्य शम्भुधुसरित्यमुष्यां दाक्षायणीनाथमुदीक्षते यः॥ ६९ ॥

इतीरितः शङ्करयोजितात्मा केनापि भिक्षुर्मुदितो जगाहे ।

तीर्थ तदाप्लुत्य ननाम शम्भोरधि जितात्मा भुवनस्य गोप्तुः ।।

रामसेतुगमनाय संदधे मानसं मुनिरनुत्तमः पुनः ।

वर्त्मनि प्रयतमानसो व्रजन संददर्श सरितं कवेरजाम् ।। ७१॥

यत्पवित्रपुलिनस्थलं पयःसिन्धुवासरसिकाय विष्णवे ।

अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने ।। ७२ ॥

सह्यपर्वतसुतातिनिर्मलाम्भोभिषिक्तभगवत्पदाम्बुजे ।

आकलय्य बहुशिष्यसंवृतः प्रास्थिताभिरुचितस्थलाय सः ॥७३॥

गच्छन् गच्छन् मार्गमध्येऽभियातं गेहं भिक्षुर्मातुलसाऽऽजगाम ।

दृष्ट्वा शिष्यैस्तं चिरेणाभियातं मोदं प्रापन्मातुलः शास्त्रवेदी ॥ ७ ॥

शुश्राव त बन्धुजनः सशिष्यं स्वमातुलागारमुपेयिवांसम् ।

आगत्य दृष्ट्वा चिरमागतं तं जहर्ष हर्षातिशयेन साश्रुः ।। ७५ ॥

रुरोद कश्चिन्मुमुदेव कश्चिजहास पूर्वाचरितं बभाषे।

कश्चित्प्रमोदातिशयेन किञ्चिद्वचः स्खलद्गीः प्रणनाम कश्चित् ॥ ७६॥

ऊवेऽथ तं ज्ञातिजनः प्रमोदी दृष्ट्रा चिरायाक्षिपथं गतोऽभूः।

दिदृक्षते त्वां जनताऽतिहात्तिथापि शक्नोषि न वीक्षणाय॥७७॥

पुत्राः समित्रा न न बन्धुवर्गों न राजबाधा न च चोरभीतिः ।

कृतार्थतामूलपदं यतित्वं प्रसूनवन्तं फलितं महान्तम् ॥ ७८॥

शाखोपशाखाञ्चितमेव वृक्षं बाधन्त आगत्य न तद्विहीनम् ।

यथा तथा वा धनिनं दरिद्रा बाधन्त आगत्य दिने दिने स्म॥ ७९ ॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152