श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 185
शुद्धं महवर्णयितुं क्षमेत पुण्यं पुरारिः स्वयमेव तस्य ।
निमज्ज्य शम्भुधुसरित्यमुष्यां दाक्षायणीनाथमुदीक्षते यः॥ ६९ ॥
इतीरितः शङ्करयोजितात्मा केनापि भिक्षुर्मुदितो जगाहे ।
तीर्थ तदाप्लुत्य ननाम शम्भोरधि जितात्मा भुवनस्य गोप्तुः ।।
रामसेतुगमनाय संदधे मानसं मुनिरनुत्तमः पुनः ।
वर्त्मनि प्रयतमानसो व्रजन संददर्श सरितं कवेरजाम् ।। ७१॥
यत्पवित्रपुलिनस्थलं पयःसिन्धुवासरसिकाय विष्णवे ।
अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने ।। ७२ ॥
सह्यपर्वतसुतातिनिर्मलाम्भोभिषिक्तभगवत्पदाम्बुजे ।
आकलय्य बहुशिष्यसंवृतः प्रास्थिताभिरुचितस्थलाय सः ॥७३॥
गच्छन् गच्छन् मार्गमध्येऽभियातं गेहं भिक्षुर्मातुलसाऽऽजगाम ।
दृष्ट्वा शिष्यैस्तं चिरेणाभियातं मोदं प्रापन्मातुलः शास्त्रवेदी ॥ ७ ॥
शुश्राव त बन्धुजनः सशिष्यं स्वमातुलागारमुपेयिवांसम् ।
आगत्य दृष्ट्वा चिरमागतं तं जहर्ष हर्षातिशयेन साश्रुः ।। ७५ ॥
रुरोद कश्चिन्मुमुदेव कश्चिजहास पूर्वाचरितं बभाषे।
कश्चित्प्रमोदातिशयेन किञ्चिद्वचः स्खलद्गीः प्रणनाम कश्चित् ॥ ७६॥
ऊवेऽथ तं ज्ञातिजनः प्रमोदी दृष्ट्रा चिरायाक्षिपथं गतोऽभूः।
दिदृक्षते त्वां जनताऽतिहात्तिथापि शक्नोषि न वीक्षणाय॥७७॥
पुत्राः समित्रा न न बन्धुवर्गों न राजबाधा न च चोरभीतिः ।
कृतार्थतामूलपदं यतित्वं प्रसूनवन्तं फलितं महान्तम् ॥ ७८॥
शाखोपशाखाञ्चितमेव वृक्षं बाधन्त आगत्य न तद्विहीनम् ।
यथा तथा वा धनिनं दरिद्रा बाधन्त आगत्य दिने दिने स्म॥ ७९ ॥
Comments
Post a Comment