श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 186
कुटुम्बरक्षागतमानसानामायाति निद्राऽपि सुखं न जातु ।
क देवतार्चा क च तीर्थयात्रा क्व वा निषेवा महतां भवेत्रः ॥८॥
अश्रौष्म संन्यासकृतं भवन्तं विप्रात् कुतश्चिद्गृहमागतानः ।
कालोऽत्यगात्ते बहुरद्य दैवात्तीर्थस्य हेतोर्गृहमागतस्त्वम् ॥ ८१ ॥
यथा शकुन्ताः परवर्धितान् दुमान् समाश्रयन्ते सुखदांस्त्यजन्त्यपि ।
परप्रक्लमान् मठदेवतागृहान्यतिः समाश्रित्य तथोज्झति ध्रुवम् ।।२।।
यथा हि पुष्पाण्यभिगम्य षट्पदाः संगृह्य सारं रसमेव भुञ्जते ।
तथा यतिः सारमवाप्नुवन सुखं गृहाद्गृहादोदनमेव भिक्षते ॥ ८३॥
यतेविरज्यात्मगतिः कलत्रं देहं गृहं संयतमेव सौख्यम् ।
विरक्तिभाजस्तनयाः स्व शिष्याः किमर्थनीय यतिनो महात्मन् ॥ ८४॥
मनोरथानां न समाप्तिरिष्यते पुनः पुनः संतनुते मनोरथान् ।
दारानभी मुर्यतते दिवानिशं तान् प्राप्य तेभ्यस्तनयानभीप्सति ।।
अनाप्नुवन् दुःखमसौ सुतीनं प्रामोति चेष्टेन वियुज्यते पुनः ।
सर्वात्मना कामवशस्य दुःखं तस्माद्विरक्तिः पुरुषेण कार्या ॥ ८६ ॥
विरक्तिमूलं मनसो विशुद्धि तन्मूलमाहुमहतां निषेवाम् ।
भवाशास्तेन च दूरदेशे परोपकाराय रसामठन्ति ।। ८७ ॥
अज्ञातगोत्रा विदितात्मतत्त्या लोकस दृष्ट्या जडवद्विमान्तः ।
चरन्ति भूतान्यनुकम्पमानाः सन्तो यहच्छोपनतोपभोग्याः ॥ ८८॥
चरन्ति तीर्थान्यपि संग्रहीतुं लोकं महान्तो ननु शुद्धभावाः ।
शुद्धात्मविद्याक्षपितोल्पापास्तज्जुष्टमम्भो निगदन्ति तीर्थम् ॥ ८९॥
वस्तव्यमत्र कतिचिदिवसानि विद्वस्त्वदर्शनं क्तिनुते मुदितादि मन्यम् ।
एयद्वियोगचकिता जनतेयमास्ते दुःखं गतेऽत्र भवितेति भवत्यसङ्गे॥
Comments
Post a Comment