श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 187

कोशं क्लेशमलस्य लास्यगृहमप्युदंहसामालयं

पैशुन्यस्य निशान्तमुत्कटमृषाभाषाविशेषाश्रयम् ।

हिंसामांसलमाश्रिता घनघनाशंसानृशंसा वयं

वयं दुर्जनसङ्गमं करुणया शोध्या यतीन्दो त्वया ॥ ९१॥

संयुनक्ति वियुनक्ति देहिनं दैवमेव परमं मनागपि ।

इष्टसङ्गतिनिवृत्तिकालयोनिर्विकारहृदयो भवेन्नरः ॥ ९२ ॥

मध्याह्नकाले क्षुधितस्तृषार्तः क्व मेऽनदातेति वदन्नुपैति ।

यस्तस्य निर्वापयिता क्षुधार्तेः कस्तस्य पुण्यं वदितुं क्षमेत ।। ९३॥

सायं प्रातर्वहिकार्य वितन्वन् मजस्तोये दण्डकृष्णाजिनी च ।

नित्यं वर्णी वेदवाक्यान्यधीयन् क्षुद्ध्वा शीघं गेहिनो गेहमेति ।।

उच्चैः शास्त्रं भाषमाणोऽपि भिक्षुस्तारं मन्त्रं संजपन्वा यतात्मा ।

मध्येधलं जाठराग्री प्रदीप्त दण्डी नित्यं गेहिनो गेहमेति ॥ ९५ ॥

यदन्नदानेन निजं शरीरं पुष्णस्तपोऽयं कुरुते सुतीव्रम् ।

कनुस्तदधं ददतोऽन्नमधमिति स्मृतिः संववृतेऽनवद्या ॥ ९६ ॥

पुण्यं गृहस्थेन विचक्षणेन गृहेषु संचेतुमलं प्रयासात् ।

विनाऽपि तत्कनिषेत्रणेन तीर्थादिसेवा बहुदुःखसाध्या ।। ९७ ।।

गृही धनी धन्यतरो मतो मे तस्योपजीवन्ति धनं हि सर्वे ।

चौर्येण कश्चित्प्रणयेन कश्चिदानेन कश्चिदलतोऽपि कश्चित् ॥९८ ।।

संतोषयेद्वेदविदं द्विजं यः सन्तोषयत्येष स सर्वदेवान् ।

तवेदवित्रे निवसन्ति देवा इति स्म साक्षाच्छ्रुतिरेव वक्ति ॥ ९९ ॥

स्वधर्मनिष्ठा विदिताखिला जितेन्द्रियाः सेवितसर्वतीर्थाः ।

परोपकारबतिनो महान्त आयान्ति सबै गृहिणो गृहाय ॥ १० ॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152