श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 188

गृही गृहस्थोऽपि तदश्नुते फलं यत्तीर्थसेवाभिरवाप्यते जनः ।

तत्तस तीर्थ गृहमेव कीर्तित धनी वदान्यः प्रवसेन कश्चन ॥ ११ ॥

अन्तःस्थिता म्पकमुख्यजीवा बहिः स्थिता गोमृगपक्षिमुख्याः ।

जीवन्ति जीवाः सकलोपजीव्यस्तस्माद्गृही सर्ववरो मतो मे ।। १०२ ।।

शरीरमूलं पुरुषार्थसाधनं तच्चानमूलं श्रुतितोऽवगम्यते ।

तच्चान्नमस्माकममीषु संस्थितं सर्वे फलं गेहपतिदुमाश्रयम् ।। १०३।।

ब्रवीमि भूयः ऋणुताऽऽदरेण को गृहागतं पूजयताऽऽतुरातिथिम् ।

संपूजितो वोऽतिथिरुद्धरेत्कुलं निराकृतात् कि भवतीति नोच्यते ॥

विनाऽभिसन्धि कुरुत श्रुतीरितं कर्म द्विजा नो जगतामधीश्वरः।

तुष्येदिति प्रार्थनयाऽपि तेन स्वान्तस्य शुद्धिर्भविताऽचिरेण वः॥

ससंरम्भश्लिष्यत्सुफणितिवधूटीकुचतटी-

पटीवत्पाटीरागरवनवपङ्काङ्कितहृदः ।

तथाऽप्यते पूता यतिपतिपदाम्भोजभजन-

क्षणक्षीणक्लेशाः सदयहृदयाभाः सुकृतिनः ।। १०६॥

संदिश्यत्यं बन्धुतां भिक्षुराजो भिक्षा चक्रे मातुलस्यैव मेहे।

पप्रच्छेनं मातुलो भुक्तवन्तं किंस्विच्छनं पुस्तकं शिष्यहस्ते ॥ १७॥

टीका विद्वन् भाष्यगेति ब्रुवाणं तां देहीति प्रोचिषे दक्षवांश्च ।

अद्राक्षीचां मातुलस्तस्य बुद्धि रष्ट्वाऽऽनन्दीत् खेदमापच किश्चित् ।।

प्रबन्धनिर्माणविचित्रनैपुणी दृष्टा प्रमोदं स विवेद किञ्चित् ।

मतान्तराणां किल युक्तिजालनिरुत्तरं बन्धनमालुलोके ॥ १०९ ॥

गुरोर्मत स्वाभिमतं विशेषानिराकृतं तत्र समत्सरोभूव ।

साधुनिबन्धोऽयमिति ब्रुवाणस्तं साभ्यसूयोऽपि कृताभिनन्दः ॥ ११ ॥

Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152