श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 190

अगस्त्यदृश्वा रघुनन्दनस्ततः स खेदमन्तःकरणोत्थमत्यजत् ।

प्रायो महद्दर्शनमेव देहिनां क्षिणोति खेदं रविवन्महातमः ।। १२२ ।।

सभायमादिभिरर्चयित्वा रामस्तदयि शिरसा ननाम ।

तूष्णीं मुहूर्त व्यमनार्णवस्थो धृति समास्थाय पुनर्वभाषे ॥ १२३ ॥

दृष्ट्वा भवन्तं पितृवत्प्रमोदे यन्मामगा दुःखमहार्णवस्थम् ।

मन्ये ममाऽऽत्मानमवाप्तकामं वंशो महान्मे तपनात्प्रवृत्तः ॥ १२४ ॥

न तत्र मादृग्जनिता न जातः पदच्युतोऽहं प्रथम सभार्यः।

सलक्ष्मणोऽरण्यमुपागतश्च मारीचमायानिहतान्तरङ्गः ॥ १२५ ॥

तत्रापि भार्यामहृत च्छलेन स रावणो राक्षसपुङ्गवो मे ।

सा चाधुनाऽशोकवने समास्ते कृशा वियोगात्स्वत एव तन्वी । १२६॥

तीवा समुद्रं विनिहत्य दुष्टं बलेन सीता महता हरामि ।

यथा तथोपायमुदाहर त्वं न मे त्वदन्योऽस्ति हितोपदेष्टा ।। १२७ ॥

इतीरितो वाचमुवाच विद्वान्मा राम शोकस्य वशं गतो भूः।

बंशद्वये सन्ति नृपा महान्तः संप्राप्य दुःखं परिमुक्तदुःखाः ॥ १२८ ॥

त्वमग्रणीदर्दाशरथे धनुभृतां तवानुजस्यापि समो न लक्ष्यते ।

प्लवङ्गमानामधिपस्य कोटिशो मा मुश्च मा मुंच वचो विनार्थम् ॥

सहायसंपत्तिरियं तवास्ति हितोपदेष्टाऽप्यहमस्मि कश्चित् ।

वारांनिधिः किं कुरुते तवायं स्मराधुना गोष्पदमात्रमेनम् ॥ १३ ॥

पुरेव चार्वब्धिमहं पिबामि शुष्केन तेन प्रतियाहि लङ्काम् ।

एवं मया कीर्तिरूपार्जिता स्याद्धे तु वाधों तव सार्जिता स्यात् ॥

सेतुं वा बन्धयित्वा जहि त्वं दुष्ट चौर्याधेन सीता हनाऽऽसीत् ।

प्रामोषि त्वं कीर्तिमाचन्द्रतारं तेनालाब्धि बन्धय त्वं कपीन्द्रः॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152