श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 190
अगस्त्यदृश्वा रघुनन्दनस्ततः स खेदमन्तःकरणोत्थमत्यजत् ।
प्रायो महद्दर्शनमेव देहिनां क्षिणोति खेदं रविवन्महातमः ।। १२२ ।।
सभायमादिभिरर्चयित्वा रामस्तदयि शिरसा ननाम ।
तूष्णीं मुहूर्त व्यमनार्णवस्थो धृति समास्थाय पुनर्वभाषे ॥ १२३ ॥
दृष्ट्वा भवन्तं पितृवत्प्रमोदे यन्मामगा दुःखमहार्णवस्थम् ।
मन्ये ममाऽऽत्मानमवाप्तकामं वंशो महान्मे तपनात्प्रवृत्तः ॥ १२४ ॥
न तत्र मादृग्जनिता न जातः पदच्युतोऽहं प्रथम सभार्यः।
सलक्ष्मणोऽरण्यमुपागतश्च मारीचमायानिहतान्तरङ्गः ॥ १२५ ॥
तत्रापि भार्यामहृत च्छलेन स रावणो राक्षसपुङ्गवो मे ।
सा चाधुनाऽशोकवने समास्ते कृशा वियोगात्स्वत एव तन्वी । १२६॥
तीवा समुद्रं विनिहत्य दुष्टं बलेन सीता महता हरामि ।
यथा तथोपायमुदाहर त्वं न मे त्वदन्योऽस्ति हितोपदेष्टा ।। १२७ ॥
इतीरितो वाचमुवाच विद्वान्मा राम शोकस्य वशं गतो भूः।
बंशद्वये सन्ति नृपा महान्तः संप्राप्य दुःखं परिमुक्तदुःखाः ॥ १२८ ॥
त्वमग्रणीदर्दाशरथे धनुभृतां तवानुजस्यापि समो न लक्ष्यते ।
प्लवङ्गमानामधिपस्य कोटिशो मा मुश्च मा मुंच वचो विनार्थम् ॥
सहायसंपत्तिरियं तवास्ति हितोपदेष्टाऽप्यहमस्मि कश्चित् ।
वारांनिधिः किं कुरुते तवायं स्मराधुना गोष्पदमात्रमेनम् ॥ १३ ॥
पुरेव चार्वब्धिमहं पिबामि शुष्केन तेन प्रतियाहि लङ्काम् ।
एवं मया कीर्तिरूपार्जिता स्याद्धे तु वाधों तव सार्जिता स्यात् ॥
सेतुं वा बन्धयित्वा जहि त्वं दुष्ट चौर्याधेन सीता हनाऽऽसीत् ।
प्रामोषि त्वं कीर्तिमाचन्द्रतारं तेनालाब्धि बन्धय त्वं कपीन्द्रः॥
Comments
Post a Comment