श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 197
इति वादिनि भूमिपे सुधन्वा यतिराजं निजगावधिज्यधन्वा ।
मयि तिष्ठति किं भयं परेभ्यस्तव भक्ते यतिनाथ पामरेभ्यः ॥ १०॥
अथ तीर्थकराग्रणीः प्रतस्थे किल कापालिकजालकं विजेतुम् ।
निशमय्य तमागतं समागात्क्रकचो नाम कपालिदेशिकाग्न्यः ॥११॥
पितृकाननभस्मनाऽनुलिप्तः करसंप्राप्तकरोटिरात्तशूलः ।
सहितो बहुभिः स्वतुल्यवेषैः स इति स्माऽऽह महामनाः सगर्वः ॥१२॥
भसितं धृतमित्यदस्तु युक्तं शुचि संत्यज्य शिरकपालमेतत् ।
बहथाशुचि खर्परं किमर्थ न कथङ्कारमुपास्यते कपाली ॥ १३ ॥
नरशीर्षकुशेशयैरलब्ध्वा रुधिराक्तैर्मधुना च भैरवार्चाम् ।
उमया समया सरोरुहाक्ष्या कथमाश्लिष्टवपुर्मुद प्रयायात् ॥ १४ ॥
इति जल्पति भैरवागमानां हृदयं कापुरुषेति तं विनिन्छ ।
निरवासयदात्मवित्समाजात् पुरुषैः स्वैरधिकारिभिः सुधन्वा ॥ १५ ॥
भृकुटीकुटिलाननश्चलोष्ठः सितमुद्यम्य परश्वधं स मूर्खः ।
भवतां न शिरांसि चेद्विभिन्या क्रकचो नाहमिति अवन्नयासीत् ॥१६॥
रुषितानि कपालिनां कुलानि प्रलयाम्भोधरभीकराखाणि ।
अमुना प्रहितान्यतिप्रसंख्यान्यभियातानि समुद्यतायुधानि ॥१७॥
अथ विप्रकुलं भयाकुलं तद्रुतमालोक्य महारथः सुधन्वा ।
कुपितः कवची स्थी निषङ्गा धनुरादाय ययौ शरान् विमुञ्चन् ॥१८॥
अवनीभृति योधयत्यरीस्तांस्त्वरयैकत्र ततोऽन्यतो नियुक्ताः।
क्रकचेन वधाय भूसुराणां द्रुतमासेदुरुदायुधाः सहस्रम् ॥ १९ ॥
अबलोक्य कपालिसङ्घमाराच्छमनानीकनिकाशमापतन्तम्।
न्यथिताः प्रतिपेदिरे शरण्यं शरणं शकरयोगिनं दिजेन्द्राः॥ २० ॥
Comments
Post a Comment