श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 198
आचार्यकृतदिग्विजयवर्णनम् ।
असितोमरपट्टिशत्रिशूलैः प्रजिघांसून भृशमुज्झिताट्टहासान् ।
यतिराट् स चकार भस्मसात्तानिजहुङ्कारभुवाऽग्निना क्षणेन ॥ २१ ॥
नृपतिश्च शरैः सुवर्णपुङ्खैर्विनिकृत्तैः प्रतिपक्षवक्त्रपः।
रणरङ्गभुवं सहस्रसङ्घः समलंकृत्य मुदाऽगमन्मुनीन्द्रम् ॥ २२ ॥
तदनु क्रकचो हतान् स्वकीयानरुजांश्च द्विजपुङ्गवानुदीक्ष्य ।
अतिमात्रविद्यमानचेता यतिराजस्य समीपमाप भूयः ॥ २३ ॥
कुमताश्रय पश्य मे प्रभावं फलमाप्स्यस्यधुनैव कर्मणोऽस्य ।
इति हस्ततले दधत्कपालं क्षणमध्यायदसौ निमील्य नेत्रे ॥२४॥
सुरया परिपूरित कपालं झटिति ध्यायति भैरवागमज्ञे ।
स निपीय तदर्धमधमस्या निदधार स्मरति स्म भैरवं च ॥ २५ ॥
अथ मर्त्यशिरस्कपालमाली ज्वलनज्वालजटाछटस्त्रिशूली।
विकटप्रकटाट्टहासशाली पुरतः प्रादुरभन्महाकपाली ॥ २६ ॥
तव भक्तजनगुहं दृशा सञ्जहि देवेति कपालिना नियुक्तः।
कथमात्मनि मेऽपराध्यसीति क्रकचस्यैव शिरो जहार रुष्टः ।। २७ ।।
यमिनामृषभेण संस्तुतः सन्नयमन्तर्धिमवाप देववर्यः ।
अखिलेऽपि खिले कुले खलानाममुमानचुरलं द्विजाः प्रहृष्टाः ॥२८॥
यतिराडथ तेषु तेषु देशेष्विति पाषण्डपरान् द्विजान् विमथ्नन् ।
अपरान्तमहार्णवोपकण्ठं प्रतिपेदे प्रतिवादिदर्पहन्ता ।। २९ ॥
विललास चलत्तरङ्गहस्तै दराजोऽभिनयन्निगूढमर्थम् ।
अवधीरितदुन्दुभिस्वनेन प्रतिवादीव महान् महारवेण ॥३०॥
बहुलभ्रमवानयं जडात्मा सुमनोभिर्मथितश्च पूर्वमेव ।
इति सिन्धुमुपेक्ष्य स क्षमावानिव गोकर्णमुदारधीः प्रतस्थे ।। ३१ ।।
Comments
Post a Comment