श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 198

आचार्यकृतदिग्विजयवर्णनम् ।

असितोमरपट्टिशत्रिशूलैः प्रजिघांसून भृशमुज्झिताट्टहासान् ।

यतिराट् स चकार भस्मसात्तानिजहुङ्कारभुवाऽग्निना क्षणेन ॥ २१ ॥

नृपतिश्च शरैः सुवर्णपुङ्खैर्विनिकृत्तैः प्रतिपक्षवक्त्रपः।

रणरङ्गभुवं सहस्रसङ्घः समलंकृत्य मुदाऽगमन्मुनीन्द्रम् ॥ २२ ॥

तदनु क्रकचो हतान् स्वकीयानरुजांश्च द्विजपुङ्गवानुदीक्ष्य ।

अतिमात्रविद्यमानचेता यतिराजस्य समीपमाप भूयः ॥ २३ ॥

कुमताश्रय पश्य मे प्रभावं फलमाप्स्यस्यधुनैव कर्मणोऽस्य ।

इति हस्ततले दधत्कपालं क्षणमध्यायदसौ निमील्य नेत्रे ॥२४॥

सुरया परिपूरित कपालं झटिति ध्यायति भैरवागमज्ञे ।

स निपीय तदर्धमधमस्या निदधार स्मरति स्म भैरवं च ॥ २५ ॥

अथ मर्त्यशिरस्कपालमाली ज्वलनज्वालजटाछटस्त्रिशूली।

विकटप्रकटाट्टहासशाली पुरतः प्रादुरभन्महाकपाली ॥ २६ ॥

तव भक्तजनगुहं दृशा सञ्जहि देवेति कपालिना नियुक्तः।

कथमात्मनि मेऽपराध्यसीति क्रकचस्यैव शिरो जहार रुष्टः ।। २७ ।।

यमिनामृषभेण संस्तुतः सन्नयमन्तर्धिमवाप देववर्यः ।

अखिलेऽपि खिले कुले खलानाममुमानचुरलं द्विजाः प्रहृष्टाः ॥२८॥

यतिराडथ तेषु तेषु देशेष्विति पाषण्डपरान् द्विजान् विमथ्नन् ।

अपरान्तमहार्णवोपकण्ठं प्रतिपेदे प्रतिवादिदर्पहन्ता ।। २९ ॥

विललास चलत्तरङ्गहस्तै दराजोऽभिनयन्निगूढमर्थम् ।

अवधीरितदुन्दुभिस्वनेन प्रतिवादीव महान् महारवेण ॥३०॥

बहुलभ्रमवानयं जडात्मा सुमनोभिर्मथितश्च पूर्वमेव ।

इति सिन्धुमुपेक्ष्य स क्षमावानिव गोकर्णमुदारधीः प्रतस्थे ।। ३१ ।।


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152