श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 199
अवगाह्य सरित्पति स तत्र प्रियमासाध तुपारशैलपुत्र्याः।
स्तवसत्तमममृतार्थचित्रे रचयामास भुजङ्गवृत्तरम्यम् ॥३२॥
तदनन्तरमागमान्तविद्यां प्रणतेभ्यः प्रतिपादयन्तमेनम् ।
हरदत्तसमाह्वयोऽधिगम्य स्वगुरुं सङ्गिरते स्म नीलकण्ठम् ॥ ३३ ॥
भगवन्निह शङ्कराभिधानो यतिरागत्य जिगीषुरार्यपादान् ।
स्ववशीकृतभट्टमण्डनादिः सह शिष्यैर्गिरिशालये समास्ते ॥ ३४ ॥
इति तद्वचनं निशम्य सम्यग्ग्रथितानेकनिवन्धरत्नहारः ।
शिवतत्परसूत्रभाष्यकर्ता प्रहसन वाचमुवाच शैववर्यः ॥३५ ।।
सरितां पतिमेष शोषयेद्वा सवितारं वियतः प्रपातयेद्वा ।
पटवत्सुरवर्त्म वेष्टयेद्वा विजये नैव तथाऽपि मे समर्थः ॥ ३६॥
परपक्षतमिस्रचञ्चदकर्मम तर्कंबहुधा विशीर्यमाणम् ।
अधुनैव मतं निजं स पश्यत्विति जल्पन्निरगादनल्पकोपः ॥ ३७॥
सितभूतितरङ्गिताखिलाङ्गः स्फुटरुद्राक्षकलापकम्रकण्ठैः ।
परिवीतमधीतशैवशास्त्रमुनिरायान्तममुं ददर्श शिष्यः ॥३८॥
अधिगत्य महर्षिसन्निकर्ष कविरातिष्ठिपदात्मपक्षमेषः ।
शुकतातकृतात्मशास्वतः प्राक्कपिलाचार्य इवाऽऽत्मशास्त्रमद्धा ॥ ३९ ॥
भगवन् क्षणमात्रमीक्ष्यतां तत्प्रथमं तु स्फुरदुक्तिपाटवं मे ।
इति देशिकपुङ्गवं निवार्य व्यवदत्तेन सुरेश्वरः सुधीशः॥ ४० ॥
सुमते तव कौशलं विजाने स्वयमेवैष मुनिः प्रतिब्रवीतु ।
इति तं विनिवर्त्य नीलकण्ठो यतिकण्ठीरवसंमुखम्तदाऽऽसीत् ॥४१॥
परपक्षविसावलीमरालैर्वचनैस्तस्य मतं चखण्ड दण्डी।
अथ नीलगलः स्वपक्षरक्षा जहदद्वैतमपाकरिष्णुरूचे ॥ ४२ ॥
Comments
Post a Comment