श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 200
प्रशमिस्तदसीति यत्रयीकैः कथितोऽर्थः स न युज्यते त्वदिष्टः।
अभिदा तिमिरप्रकाशयोः किं घटते हन्त विरुद्धधर्मवचात् ॥ ४३ ॥
रवितत्प्रतिबिम्बयोरिवाभिद्धटतामित्यपि तत्त्वतो न वाच्यम् ।
मुकुरे प्रतिविम्बितस्य मिथ्यात्वगतेोमशिवादिदेशिकोक्त्या ॥
मुकुरस्थमुखस्य बिम्बवक्त्राद्भिदया पार्श्वगलोकलोकनेन ।
प्रतिविम्बितमाननं मृषा स्यादिति भावत्कमतानुगोक्तिका च ॥ ४५ ॥
न च मायिकजीवनिष्ठमौढ्येश्वरसार्वज्ञविरुद्धधर्मवाधात् ।
उभयोरपि चित्स्वरूपताया अविशेषादभिदैव वास्तवीति ॥ ४६ ॥
न हि मानशतैः स्थितस्य बाधाऽपरया दत्तजलाञ्जलिभिंदा स्यात् ।
विपरीतहयत्वगोत्वबाधाद्धयपश्वोर्निजरूपकैक्ययुक्त्या ।। ४७ ॥
यदि मानगतस्य हानमिष्टं न भवेत्तर्हि न चेश्वरोऽहमस्मि ।
इति मानगतस्य जीवसर्वेश्वरभेदस्य न हानमप्यभीष्टम् ॥४८॥
इति युक्तिशतैः स नीलकण्ठः कविरक्षोभयदद्वितीयपक्षम् ।
निगमान्तवचःप्रकाश्यमानं कलभः पद्मवनं यथा प्रफुल्लम् ॥४१॥
अथ नीलगलोक्तदोषजालो भगवानेवमवोचदस्तु कामम् ।
शृणु तत्त्वमसीति संप्रदायश्रुतिवाक्यस्य परावरेऽभिसन्धिम् ॥५॥
ननु वाच्यगता विरुद्धताधीरिह सोऽसावितिवद्विरोधहाने ।
अविरोधि तु वाच्यमाददैक्यं पदयुग्मं स्फुटमाह को विरोधः ॥५१॥
यदिहोक्तमतिप्रसञ्जनं भो न भवेन्नो हि गवाश्वयोः प्रमाणम् ।
अभिदाघटकं तयोर्यतः स्यादुभयो लक्षणयाऽभिदानुभूतिः ॥ ५२ ॥
ननु मौढ्यसमस्तवित्त्वधर्मान्वितजीवेश्वररूपतोऽतिरिक्तम् ।
उभयोः परिनिष्ठितं स्वरूपं बत नास्त्येव यतोव लक्षणा स्यात् ॥
Comments
Post a Comment