श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 201
इति चेन समीक्ष्यमाणजीवेश्वररूपस्य च कल्पितत्वयुक्त्या ।
तदधिष्ठितसत्यवस्तुनोऽद्धा नियमेनैव सदाऽभ्युपेयतायाः ॥५४॥
भवताऽपि तथा हि दृश्यदेहायहमन्तस्य जडत्वमभ्युपेयम् ।
परिशिष्टमुपेयमेकरूपं ननु किञ्चिद्धि तदेव तस्य रूपम् ॥ ५५ ॥
जगतोऽसत एवमेव युक्त्या त्वनिरूप्यत्वत एव कल्पितत्वात् ।
तदधिष्ठितभूतरूपमेयं ननु किश्चिद्धि तदीश्वरस्य सत्यम् ॥ ५६ ॥
तदिह श्रुतिगोभयस्वरूपे निरुपाधौ न हि मौढ्यसर्वविवे।
न जपाकुसुमात्तलोहितिम्नः स्फटिके स्यान्निरुपाधिके प्रसक्तिः॥५७॥
अपि मेदधियो यथार्थतायां न भयं भेददृशः श्रुतिब्रवीतु ।
विपरीतदृशो ह्यनर्थयोगो न भिदाधीविपरीतधीर्यतः स्यात् ॥५८॥
अभिदा श्रुतिगाऽप्यतात्विकी चेत्पुरुषार्थश्रवणं न तद्गतौ स्यात् ।
अशिवोऽहमिति भ्रमस्य शास्त्राद्विधुमानत्वगतेरिवास्ति बाधः ॥ ५९॥
तदबाधितकल्पनाक्षति! श्रुतिसिद्धात्मपरैक्यबुद्धिवाधः ।
निगमात् प्रबलं विलोक्यते माकरणं येन तदीरितस्य बाधः॥६॥
ऋषिभिर्बहुधा परात्मतचं पुरुषार्थस्य च तत्त्वमप्यथोक्तम् ।
तदपास्य निरूपित्तप्रकारो भवताऽसौ कथमेक एवं धार्यः ॥ १॥
प्रबलश्रुतिमानतो विरोधे बलहीनस्मृतिवाच एव नेयाः ।
इति नीतिबलात्त्रयीविरुद्धं न ऋषीणां वचनं प्रमात्वमीयात् ॥ ६२ ॥
ननु युक्तियुत महर्षिवाक्यं श्रुतिवद्ग्राह्यतम परं तथा हि ।
प्रतिदेहमसौ विभिन्न आत्मा सुखदुःखादिविचित्रतावलोकात् ॥ ६३ ॥
यदि चाऽऽत्मन एकता तदानीमतिदुःखी युवराजसौख्यमीयात् ।
अमुकः समुखोऽमुकस्तु दुःखीत्यनुभूतिर्न भवेत्तयोरभेदात् ॥१४॥
Comments
Post a Comment