श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 201

इति चेन समीक्ष्यमाणजीवेश्वररूपस्य च कल्पितत्वयुक्त्या ।

तदधिष्ठितसत्यवस्तुनोऽद्धा नियमेनैव सदाऽभ्युपेयतायाः ॥५४॥

भवताऽपि तथा हि दृश्यदेहायहमन्तस्य जडत्वमभ्युपेयम् ।

परिशिष्टमुपेयमेकरूपं ननु किञ्चिद्धि तदेव तस्य रूपम् ॥ ५५ ॥

जगतोऽसत एवमेव युक्त्या त्वनिरूप्यत्वत एव कल्पितत्वात् ।

तदधिष्ठितभूतरूपमेयं ननु किश्चिद्धि तदीश्वरस्य सत्यम् ॥ ५६ ॥

तदिह श्रुतिगोभयस्वरूपे निरुपाधौ न हि मौढ्यसर्वविवे।

न जपाकुसुमात्तलोहितिम्नः स्फटिके स्यान्निरुपाधिके प्रसक्तिः॥५७॥

अपि मेदधियो यथार्थतायां न भयं भेददृशः श्रुतिब्रवीतु ।

विपरीतदृशो ह्यनर्थयोगो न भिदाधीविपरीतधीर्यतः स्यात् ॥५८॥

अभिदा श्रुतिगाऽप्यतात्विकी चेत्पुरुषार्थश्रवणं न तद्गतौ स्यात् ।

अशिवोऽहमिति भ्रमस्य शास्त्राद्विधुमानत्वगतेरिवास्ति बाधः ॥ ५९॥

तदबाधितकल्पनाक्षति! श्रुतिसिद्धात्मपरैक्यबुद्धिवाधः ।

निगमात् प्रबलं विलोक्यते माकरणं येन तदीरितस्य बाधः॥६॥

ऋषिभिर्बहुधा परात्मतचं पुरुषार्थस्य च तत्त्वमप्यथोक्तम् ।

तदपास्य निरूपित्तप्रकारो भवताऽसौ कथमेक एवं धार्यः ॥ १॥

प्रबलश्रुतिमानतो विरोधे बलहीनस्मृतिवाच एव नेयाः ।

इति नीतिबलात्त्रयीविरुद्धं न ऋषीणां वचनं प्रमात्वमीयात् ॥ ६२ ॥

ननु युक्तियुत महर्षिवाक्यं श्रुतिवद्ग्राह्यतम परं तथा हि ।

प्रतिदेहमसौ विभिन्न आत्मा सुखदुःखादिविचित्रतावलोकात् ॥ ६३ ॥

यदि चाऽऽत्मन एकता तदानीमतिदुःखी युवराजसौख्यमीयात् ।

अमुकः समुखोऽमुकस्तु दुःखीत्यनुभूतिर्न भवेत्तयोरभेदात् ॥१४॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152