श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 202
अयमेव विदन्वितश्च कर्ता न हि कर्तृत्वमचेतनस्य दृष्टम् ।
अत एव भुजेर्भवेत्स कर्ता परभोक्तृत्वमतिप्रसङ्गदुष्टम् ॥६५॥
पुरुषार्थ इहैष दुःखनाशः सकलस्थापि सुखस्य दुःखयुक्त्वात् ।
अतिहेयतया पुमर्थता नो विषपृक्तानवदित्यभेद्ययुक्तेः ॥६६॥
इति चेन सुखादिचित्रताया मनसो धर्मतयाऽऽत्मभेदकत्वम् ।
न कथञ्चन युज्यते पुनः सा घटयेत्प्रत्युत मानसीयभेदम् ।। ६७ ॥
चितियोगविशेष एव देहे कृतिमत्ताघटकोऽप्यचेतने स्यात् ।
तदभावत एव कर्तना स्यान्न तृणादेरिति कल्पनं वरीयः ॥ ६८ ॥
विषयोत्थसुखस्य दुःखयुक्त्वेऽप्यलयं ब्रह्मसुखं न दुःखयुक्तम् ।
पुरुषार्थतया तदेव गम्यं न पुनस्तुच्छकदुःखनाशमात्रम् ॥ ६९ ॥
इति युक्तिशतोपहितार्वचनैः श्रुत्यवरोधसोविदल्लैः ।
यतिरात्ममतं प्रसाध्य शैवं परकृद्दर्शनदारुणैरजैषीत् ॥ ७० ॥
विजितो यतिभूभृता स शैवः सह गर्वेण विसृज्य च स्वभाष्यम् ।
शरणं प्रतिपेदिवान् महर्षि हरदत्तप्रमुखैः सहाऽऽत्मशिष्यैः॥ ७१॥
यमितामृषमेण नीलकण्ठं जितमाकर्ण्य मनीषिधुर्यवर्यम् ।
सहसोदयनादयः कवीन्द्राः परमद्वैतमुषश्चकम्पिरे स्म ॥ ७२ ॥
विषयेषु वितत्य नैजभाष्याण्यथ सौराष्ट्रमुखेषु तत्र तत्र ।
बहुधा विबुधैः प्रशस्यमानो भगवान् द्वारखतीं पुरीं विवेश ॥ ७३ ॥
भुजयोरतितप्तशङ्खचक्राकृतिलोहाहतसंभृतव्रणाङ्काः।
शरदण्डसहोदरोर्ध्वपुण्ड्रास्तुलसीपर्णसनाथकर्णदेशाः ॥ ७४ ॥
शतशः समवेत्य पाश्चरात्रास्त्वमृतं पञ्चभिदाविदां वदन्तः ।
मुनिशिष्यवरैरतिप्रगल्भर्मुगराजैरिव कुञ्जराः प्रभवाः ॥ ७५ ॥
Comments
Post a Comment