श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 203
इति वैष्णवशैवशाक्तसौरप्रमुखानात्मवशंवदान्विधाय ।
अतिवेलवचोझरीनिरस्तप्रतिवाद्युञ्जयिनी पुरीमयासीत् ॥ ७६ ॥
सपदि प्रतिनादितः पयोदस्वनशङ्काकुलगेहकेकिजालैः ।
शशभृन्मुकुटाहणामृदङ्गध्वनिरश्रूयत तत्र मूर्छिताशः ॥ ७७॥
मकरध्वजविद्विडाप्तिविद्वाश्रमहृत्पुष्पसुगन्धवन्मरुद्भिः।
अगरूद्भवधूपधूपिताशं स महाकालनिवेशनं विवेश ॥ ७८ ॥
भगवानभिवन्ध चन्द्रमौलि मुनिवृन्दैरभिवन्धपादपद्मः ।
श्रमहारिणि मण्डपे मनोज्ञे स विशश्राम विसृत्वरप्रभावः ॥ ७९ ॥
काये कथयास्मदीयवार्तामिह सौम्येति स भट्टभास्कराय ।
विससर्ज वशंवदाग्रगण्यं मुनिरभ्यर्णगत सनन्दनार्यम् ।। ८० ॥
अभिरूपकुलावतंसभूतं बहुधाव्याकृतसर्ववेदराशिम् ।
तमयत्ननिरस्तदुःसपत्नं प्रतिपद्येत्थमुवाच वावदकः ॥ ८॥
जयति स्म दिगन्तगीतकीर्भिगवाञ्शङ्करयोगिचक्रवर्ती ।
प्रथयन् परमाद्वितीयतत्त्वं शमयंस्तत्परिपन्थिवादिदर्पम् ॥ ८२ ॥
स जगाद बुधाग्रगीभवन्त कुम तोत्प्रेक्षितसूत्रवृत्तिजालम् ।
अभिभूय वयं त्रयीशिखानां समवादिष्म परावरेऽभिसन्धिम् ॥३॥
तदिदं परिगृह्यतां मनीषिन् मनसाऽऽलोच्य निरस्य दुर्मतं स्वम् ।
इति तामवहेलपूर्ववर्णी गिरमाकर्ण्य तदा स लब्धवर्णः।
यशसां निधिरीषदात्तरोषस्तमुवाच प्रहसन् यतीन्द्रशिष्यम् ।। ८५ ॥
ध्रुवमेष न शुश्रुवानुदन्तं मम दुर्वादिवचस्ततीर्नुदन्तम् ।
परकीर्तिबिसाङ्कानदन्तं विदुषां मूर्वसु नानटत्पदं तम् ॥ ८६ ॥
Comments
Post a Comment