श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 204
मम वल्गति सूक्तिगुम्फवृन्दे कणभुग्जल्पितमल्पतामुपैति ।
कपिलस्य पलायते प्रलापः सुधियां कैव कथाऽधुनातनानाम् ॥ ८७ ॥
इति वादिनमब्रवीत् सनन्दः कुशलोऽथैनमविज्ञ माऽवमंस्थाः।
न हि दारितभूधरोऽपि टङ्कः प्रभवेद्वज्रमणिप्रभेदनाय ॥४८
स तमेवमुदीर्य तीर्थकीर्तेरुपकण्ठं प्रतिपद्य सद्विदग्न्य।
सकलं तदवोचदानुपर्ध्या स महात्माऽपि यतीशमाससाद ॥ ८९ ।।
अथ भास्करमस्करिप्रवीरौ बहुधाक्षेपसमर्थनप्रवीणौ ।
बहुभिर्वचनैरुदारवृत्तैर्व्यदधातां विजयेषिणौ विवादम् ॥ ९ ॥
अनयोरतिचित्रशब्दशय्यां दधतोर्दुनयभेदशक्तयुक्त्योः ।
पटुवादमृधेऽन्तरं तटस्थाः श्रुतवन्तोऽपि न किञ्चनान्वविन्दन ॥ ९१ ।।
अथ तस्य यतिः समीक्ष्य दाक्ष्यं निजपक्षाब्जशरजडाब्जभूतम् ।
बहुधाऽऽक्षिपदस्य पक्षमार्यो विबुधानां पुरतोऽप्रभातकक्ष्यम् ॥ ९२ ॥
अथ भास्करवित्स्वपक्षगुप्त्यै विधुतो वाग्मिवरः प्रगल्भयुक्त्या ।
श्रुतिशीर्षवचःप्रकाश्यमेवं कविरद्वैतमपाकरिष्णुरूचे ।। ९३ ॥
प्रशमिस्त्वदुदीरितं न युक्तं प्रकृतिर्जीवपरात्मभेदिकेति ।
न भिनत्ति हि जीवगेशगा वोभयभावस्य तदुत्तरोद्भवत्वात् ॥ ९४ ॥
मुनिरेवमिहोत्तरं बभाषे मुकुरो वा प्रतिबिम्बविम्बभेदी।
कथमीरय वक्त्रमात्रगचेञ्चितिमात्राश्रिदियं तथेति तुल्यम् ॥ ९५ ॥
चितिमात्रगतप्रकृत्युपाधे हतो विम्वपरात्मपक्षपातम् ।
प्रतिविम्बितजीवपक्षपातो मुकुरस्येव विरुध्यते न जातु ॥ ९६ ॥
अविकारिनिरस्त सङ्गयोधैकरसात्माश्रयता न युज्यतेऽस्याः।
अत एव विशिष्टसंश्रितत्वं प्रकृतेः स्यादिति नापि शङ्कनीयम् ॥ ९७॥
S.24.
Comments
Post a Comment