श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 206

प्रमितित्वमुपाश्रयन् प्रतीतेरमुकः खण्ड इति स्वशास्त्रसिद्धात् ।

भिदभिवयगोत्तरत्वहेतोर्धियमेतां तु किमित्युपेक्षसे त्वम् ।। १०९॥च

अनुमानमिदं तथा च सिद्धं विमता धीः प्रमितिभिदाभिदत्वात् ।

इह चारु निदर्शनं भवेत् सा तव खण्डोऽयमिति प्रतीतिरेषा ॥ ११० ॥

ननु संहननात्मधीः प्रमाणं न भवत्येव निषिद्धयमानगत्वात् ।

इदमिति प्रतिपन्नरूप्यधीवत्प्रबला सत्प्रतिपक्षतेति चेन्न ॥ १११ ।।

व्यभिचारयुतत्वतोऽस्य खण्डः पशुरित्यत्र तदन्यधीस्थमुण्डे ।

इतरत्र निषिध्यमानखण्डोल्लिखितत्वेन निरुक्तहेतुमत्वात् ॥ ११२ ॥

ननु हेतुरयं विवक्ष्यतेऽत्र प्रतिपन्नोपधिके निषेधगत्वम् ।

इति चेन्न विवक्षितस्य हेतोय॑भिचारात् पुनरप्यमुत्र चैव ॥ ११३ ॥

ननु गोत्व उपाधिके त्वमुष्य प्रतिपन्नस्य हि तत्र नो निषेधः ।

अपि तु प्रथमानमुण्ड इत्यत्र तथा च व्यभिचारिता न हेतोः॥१४॥

इति चेत्र विकल्पनासहत्वात् किमु खण्डस्य तु केवले निषेधः।

उत गोत्वसमन्विते स मुण्डे प्रथमो नो घटते प्रसक्त्यभावात् ॥

न हि जात्वपि खण्डके प्रसक्तः परमुण्डस्त्विति संप्रसक्त्यभावः।

चरमोऽपि न गोत्वयुक्तमुण्डे खलु खण्डस्य निषेधकाल एव ॥ ११६ ॥

स्वविशेषणभूतगोत्व एव स्फुटमेतस्य निषेधनं श्रुतं स्यात् ।

तदिहोदितहेतुसत्त्वतोऽस्य व्यभिचारो दृढवज्रलेप एव ॥ ११७ ॥

ननु भातितरामुपाधिरत्रादलदेतद्वथवततेति चेन्न ।

अहमोऽनुभवेन साधनव्यापकभावादवगत्यनन्तरं च ॥ ११८ ॥

ननु तद्वयवहारसंछिदाया इह तत्केन कमित्यनेन मुक्तौ ।

श्रुतिवाक्यगतेन संप्रतीतेर्व्यवहाँर्न कथं छिदेति चेन्न ।। ११९ ॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152