श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 208
असमागतयात्मनो निरस्तेतरयुक्तः परिणत्ययोग्यतायाः ।
परिणत्ययुजेश्च योग्यतायामपि बुद्धयाकृतितश्चिदात्मनोऽस्य ॥ १३ ॥
न हि नित्यचिदाश्रयप्रतीचा परिणामः पुनरन्यचित्स्वरूपः ।
गुणयोः समुदायमत्ययोगाद्गुणतावान्तरजातितः सजात्योः ॥ १३२ ।।
युगपत्समवैति नो हि शौक्ल्यद्वयकं यत्र च कुलचिघदेतत् ।
ननु चिन्न गुणो गुणी तथा च प्रसरेनोदितदुष्टतेति चेत्र ।। १३३ ।।
कटकाश्रयभूतदीसहेम्नो रुचकाधारकभाववत्तथैव ।
अविनाशिचिदाश्रयस्य भूयोऽन्यचिदाधारतया स्थितेरयोगात् ।। १३४ ।।
न च संस्कृतिरग्रहोऽप्यविद्या भ्रमशब्दार्थनिरुक्त्यसंभवेऽपि ।
भ्रमसंज्ञितवस्त्वसंभवेन भ्रमसंपादितसंस्कृतस्योगात् ॥ १३५ ॥
अपि नाग्रहण चितेरभावश्चितिरूपग्रहणख नित्यतायाः।
तदसंभवतो न वृत्यभावस्तदभावेऽपि चिदात्मनोऽबभासात् ॥ १३६ ।।
न च भञ्जकमीक्ष्यते न तस्योपगमे दुःखजडानृतात्मकस्य ।
इति वाच्यमखण्डवृत्तिरूढेश्वरबोधस्य निवर्तकत्क्योमात ॥ १३७ ।।
अपि चेष्टतदन्यहेतुधीजे जगतः कृत्यकृती न ते घटेते।
सकलव्यवहारसङ्करत्वात्तदलं जीवनिकाऽपि दुर्लभा ते ॥ १३८ ।।
इति युक्तिशतैरमर्त्यकीर्तिः सुमतीन्द्रं तमतन्द्रितं स जित्वा ।
श्रुतिभावविरोधिभावभाजं विमतग्रन्थममन्थरं ममन्थ ॥ १३९ ।।
इति भास्करदुर्मतेऽभिभूते भगवत्पादकथासुधा प्रसखे ।
घनवार्षिकवारिवाहजाले विमते शारदचन्द्रचन्द्रिकेव ।। १४०॥
स कथाभिरवन्तिषु प्रसिद्धान् विबुधान् वाणमयूरदण्डिमुख्यान् ।
शिथिलीकृतदुर्मताभिमानानिजभाष्यश्रवणोत्सुकांश्चकार ॥ १४१ ॥
Comments
Post a Comment