श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 209

प्रतिपद्य तु बालिकान् महर्षी विनयिभ्यः प्रविवृण्वति स्वभाष्यम् ।

अवदन्नसहिष्णवः प्रवीणाः समये केचिदथाऽऽहताभिधाने ॥१४२ ।।

ननु जीवमजीवमाश्रवं च श्रितवत्संवरनिर्जरौ च बन्धः ।

अपि मोक्ष उपैषि सप्तसंख्यान्न पदार्थान् कथमेव सप्तभङ्गया ॥ १४३॥

कथयाऽहत जीवमस्तिकायं स्फुटमेवंविध इत्युवाच मौनी ।

अवदत्स च देहतुल्यमानो दृढकर्माष्टकवेष्टितश्च विद्वन् ॥१४४ ॥

अमहाननणुर्घटादिवत्स्यात्स न नित्योऽपि च मानुषाच्च देहात् ।

गजदेहमयन्विशेन कृत्स्नं प्रविशेच्च प्लुषिदेहमप्यकृत्स्नः ॥ १४५ ॥

उपयान्ति च केचन प्रतीका महता संहननेन सङ्गमेऽस्य ।

अपयान्त्यधिजग्मुषोऽल्पदेहं तदयं देहसमः समश्रुतेश्च ॥ १४६ ॥

उपयन्त इमे तथाऽपयन्तो यदि वर्मेव न जीवतां भजेयुः ।

प्रभवेयुरनात्मनः कथं ते कथमात्मावयवाः प्रयन्तु तस्मिन् ॥१४७॥

जनितारहिताः क्षयेण हीनाः समुपायान्त्यपयान्ति चाऽऽत्मनस्ते।

अमुकोपचितः प्रयाति कृत्स्नं त्वमुकश्चापचितः प्रयात्यकृत्स्नम् ॥

किमचेतनतोत चेतनत्वं वद तेषां चरमे विरुद्धमत्या।

वपुरुन्मथितं भवेत्तु पूर्व वत कात्स्न्येन वपुर्न चेतयेयुः ॥ १४९ ॥

चलयन्ति रथं यथैकमत्या बहवो वाजिन एवमप्रतीताः।

इतरेतरमङ्गमेजयन्तु ज्ञपते चेतनतामपि प्रपद्य ॥ १५०॥

बहवोऽपि नियामकस्य सत्त्वात्सुमते तत्र भजेयुरैकमत्यम् ।

कथमत्र नियामकस्य तद्वद्विरहात् कस्यचिदप्यदो घटेत ॥ १५१॥

उपयान्ति न चापयान्ति जीवावयवाः किन्तु महत्तरे शरीरे ।

विकसन्ति च संकुचन्त्यनिष्टे यतिवर्यात्र निदर्शनं जलौका ॥ १५२ ॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152