श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 210
यदि चैवममी सविक्रियत्वाद्धटवत्ते च विनश्वरा भवेयुः ।
इति नश्वरतां प्रयाति जीवे कृतनाशाकृतसङ्गमौ भवेताम् ॥ १५३ ॥
अपि चैवमलावुवद्भवाब्धौ निजकर्माष्टकमारमग्नजन्तोः।
सततोर्ध्वगतिस्वरूपमोक्षस्तव सिद्धान्तसमर्थितो न सिध्येत् ॥ १५४ ॥
अपि साधनभूतसप्तभङ्गीनयमप्यारीत नाऽऽद्रियामहे ते ।
परमार्थसतां विरोधमाजां स्थितिरेकत्र हि नैकदा घटेत ॥ ५५ ॥
इति माध्यमिकेषु भनष्वथ भाष्याणि स नैमिशे वितत्य ।
दरदान् भरतांश्च शूरसेनान् कुरुपाञ्चालमुखान् बहूनजैषीत् ॥ १५६ ॥
पटुयुक्तिनिकृत्तसर्वशास्त्रं गुरुभट्टोदयनादिकैरजय्यम् ।
स हि खण्डनकारमूढदपं बहुधा व्युद्य वशंवदं चकार ॥ १५७ ॥
तदनन्तरमेष कामरूपानधिगत्याभिनवोपशब्दगुप्तम् ।
अजयत्किल शाक्तभाष्यकारं स च भनो मनसेदमालुलोचे ॥१५८ ॥
निगमाजविकासिबालमानोर्न समोऽमुष्य विलोक्यते त्रिलोक्याम् ।
न कथञ्चन मद्वशंवदोऽसौ तदमुं दैवतकृत्यया हरेयम् ॥ १५९ ॥
इति गूढमसौ विचिन्त्य पश्चात् सह शिष्यैः सहसा स्वशाक्तभाष्यम् ।
परिहत्य जनापवादभीत्या यमिनः शिष्य इवान्ववर्ततेषः ॥ १६० ॥
निजशिष्यपदं गतानुदीच्यानिति कृत्वाऽथ विदेहकौशलाद्यैः ।
विहितापचितिस्तथाऽङ्गवङ्गेष्वयमास्तीर्य यशो जगाम गौडान् ॥१६१॥
अभिभूय मुरारिमिश्रवयं सहसा चोदयनं विजित्य वादे ।
अव च धर्मगुप्तमिश्रं स्वयशः प्रौढमगापयत्स गौडान् ॥ १६२ ॥
पूर्व येन विमोहिता द्विजवरास्तस्यासतोऽरीन् कलौ
बुद्धस्य प्रविभेद मस्करिवरस्तान् भास्करादीन् क्षणात् ।
Comments
Post a Comment