श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

 (श्रीमदाचार्याणां शारदापीठवासवर्णनम् )

अथ यदा जितवान्यतिशेखरोऽभिनवगुप्तमनुत्तममान्त्रिकम् ।

स तु तदाऽपजितो यतिगोचरं हतमनाः कृतवानपगोरणम् ॥१॥

स ततोभिचचार मूढबुद्धिः यतिशार्दूलममुं प्ररूढरोषः ।

अचिकित्स्यतमो भिषग्भिरस्मा दजनिष्टास्य भगन्दराख्यरोगः ॥२॥

अचिकित्स्यभगन्दराख्यरोगप्रसरच्छोणितपङ्किलस्वशाव्याः ।

अजुगुप्सविशोधनादिरूपां परिचर्यामकृतास्य तोटकार्यः ॥ ३ ॥

भगन्दरव्याधिनिपीडितं गुरुं निरीक्ष्य शिष्याः समबोधयन् शनैः।

नोपेक्षणीयो भगवन् महामयस्त्वपीडितः शत्रुरिवर्द्धिमाप्नुयात् ॥४॥

ममत्वहानाद्भवता शरीरके न गण्यते व्याधिकृतातिरीदृशी।

पश्यन्त एवान्तिकवर्तिनो वयं भृशातुराः स्मः सहसा व्यथासहाः ॥

चिकित्सका व्याधिनिधानकोविदाः संप्रच्छनीया भगवन्नितस्ततः ।

प्रत्यक्षवत्संपति सन्ति पुरुषा जीवातुवेदे गदितार्थसिद्धिदाः॥६॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152