श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213
(श्रीमदाचार्याणां शारदापीठवासवर्णनम् )
अथ यदा जितवान्यतिशेखरोऽभिनवगुप्तमनुत्तममान्त्रिकम् ।
स तु तदाऽपजितो यतिगोचरं हतमनाः कृतवानपगोरणम् ॥१॥
स ततोभिचचार मूढबुद्धिः यतिशार्दूलममुं प्ररूढरोषः ।
अचिकित्स्यतमो भिषग्भिरस्मा दजनिष्टास्य भगन्दराख्यरोगः ॥२॥
अचिकित्स्यभगन्दराख्यरोगप्रसरच्छोणितपङ्किलस्वशाव्याः ।
अजुगुप्सविशोधनादिरूपां परिचर्यामकृतास्य तोटकार्यः ॥ ३ ॥
भगन्दरव्याधिनिपीडितं गुरुं निरीक्ष्य शिष्याः समबोधयन् शनैः।
नोपेक्षणीयो भगवन् महामयस्त्वपीडितः शत्रुरिवर्द्धिमाप्नुयात् ॥४॥
ममत्वहानाद्भवता शरीरके न गण्यते व्याधिकृतातिरीदृशी।
पश्यन्त एवान्तिकवर्तिनो वयं भृशातुराः स्मः सहसा व्यथासहाः ॥
चिकित्सका व्याधिनिधानकोविदाः संप्रच्छनीया भगवन्नितस्ततः ।
प्रत्यक्षवत्संपति सन्ति पुरुषा जीवातुवेदे गदितार्थसिद्धिदाः॥६॥
Comments
Post a Comment