श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 215
उपगुदं भिषजः परिबाधते गद उदेत्य तनुं तनुमध्यगः ।
यदिदमस्य विधेयमिदं ध्रुवं वदत रोगतमस्तिमिरारयः ॥१८॥
चिरमुपेक्षितवानहमेतकं दुरितजोऽयमिति प्रतिभाति मे।
तदपि शिष्यगणैर्निरहिंस्यहं प्रहितवान् मयदानयनाय तान् ॥ १९ ॥
निगदिते मुनिनेति भिषग्वरा विदधिरे बहुधा गदसत्क्रियाः।
न च शशाम गदो बहुतापदो विमनसः पटवो भिषजोऽभवन ॥२०॥
अथ मुनिर्विमनस्त्वसमन्वितानिदमवोचत सिद्धभिषग्वरान ।
अटत गेहमगात्समयो बहुर्गदहृते भवतामित ईयुषाम् ।। २१ ॥
दिनचयं गणयन पथिलोचनः प्रियजनो निवसेद्विरहातुरः ।
नरपतिर्भवतां शरणं ध्रुवं स च विदेशगमं श्रुतवान्यदि ॥ २२ ॥
रुषितवान्न च वो वितरेन्नृपः फणितजीवितमक्षतशासनः ।
तुरगवन्नृपतिश्चलमानसो भिषजमन्यमसौ विदधीत वा ॥ २३ ॥
जनपदो विरलो गदहारकैर्बहुलरुग्णजनः प्रकृतेरतः ।
मृगयते भवतो भवतां गृहे गदिजनः सहितुं गदमक्षमः ॥२४॥
पितृकुता जनिरस्य शरीरिणः समवनं गदहारिषु तिष्ठति ।
जनितमप्यफलं भिषजं विना भिषगसौ हरिरेव तनूभृतः ॥ २५ ॥
यदुदितं भवता वितथं न तत्तदपि न क्षमते व्रजितुं मनः ।
सुरभुवं प्रविहाय मनुष्यगां वजितुमिच्छति कोऽत्र नरः सुधीः ॥ २६ ॥
इति निगद्य ययुभिषजां गणा विमनसः पटवोऽपि निजान् गृहान् ।
अथ मुनिर्विजहन्ममतां तनौ गुरुवरो गुरुदुःखमसोढ सः॥२७॥
प्रथितैरवनौ पर सहरगदंकारचयैरथाचिकित्स्ये ।
प्रबले सति हा भगन्दराख्ये स्मरति स्म स्मरशासन मुनीन्द्रः ॥ २८॥
Comments
Post a Comment