श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 216
स्मरशासनशासनान्नियुक्तौ द्विजवेषं प्रविधाय भूमिमाप्तौ ।
उपसेदतुरश्विनौ च देवौ सुभुजौ साञ्जनलोचनौ सुपुस्तौ ॥ २९ ॥
यतिवर्य चिकित्सितुं न शक्या परकृत्याजनिता हि ते रुगेषा ।
इति तं समुदीर्य योगिवयं विबुधौ तौ प्रतिजग्मतुर्यथेतम् ।। ३० ॥
तदनु स्वगुरोगदापनुत्त्यै परमन्त्रं तु जनाप जातमन्युः।
मुहुरार्यपदेन वार्यमाणोऽप्यरिवगेऽप्यनुकम्पिनाऽजपादः ॥ ३१ ॥
अमुनैव ततो गदेन नीचः प्रतियातेन हतो ममार गुप्तः ।
मतिपूर्वकतो महानुभावेष्वनयः कस्य भवेत्सुखोपलब्ध्यै ॥ ३२ ॥
स्वस्थः सोऽयं ब्रह्म सायं कदाचिद्धयायन गङ्गापूरसङ्गार्द्रवातैः।
आगच्छन्तं सैकते प्रत्यगच्छद्योगीशानं गौडपादाभिधानम् ॥ ३३॥
पाणी फुल्लश्वेतपङ्केरुहश्रीमैत्रीपात्रीभूतभासा घटेन ।
आराद्राजकैरवानन्दसन्ध्यारागारक्ताम्भोदलीलां दधानम् ॥ ३४॥
पाणी शोणाम्भोजबुद्धया समन्तादाम्यद्भुङ्गीमण्डलीतुल्यकुल्याम् ।
अमुल्यग्रासङ्गिरुद्राक्षमालामङ्गुष्ठाग्रेणासकृद्भामयन्तम् ॥ ३५ ॥
आर्यस्याथो गौडपादस्य पादावभ्यासौ शङ्करः पङ्कजाभौ ।
भक्तिश्रद्धासंभ्रमाक्रान्तचेताः प्रहस्तस्थावग्रतः प्राञ्जलिः सन् ॥ ३६ ।।
सिञ्चन्नेनं क्षीरवाराशिवीचीसाचिव्यायाऽऽसन्नयनः कटाक्षः।
दन्तज्योत्स्नादन्तुराश्चापि कुर्वन्नाशाः सूक्ति संदघे गौडपादः ॥ ३७॥
कञ्चित्सर्वां वेत्सि गोविन्दनाम्नो हृद्या विद्या संसृदुद्धारकृया ।
कञ्चित्तत्त्वं तच्चमानन्दरूपं नित्यं सञ्चिभिर्मल वेत्सि वेधम् ॥ ३८॥
भक्त्या युक्ताः स्वानुरक्ता विरक्ताः शान्ता दान्ताः सन्ततं श्रद्धधानाः ।
कञ्चित्तत्त्वज्ञानकामा विनीताः शुश्रूषन्ते शिष्यवर्या गुरुं त्वाम् ॥३९।
Comments
Post a Comment