श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 217
कञ्चिन्नित्याः शत्रवो निर्जितास्ते कञ्चित्प्राप्ताः सद्गुणाः शान्तिपूर्वाः।
कञ्चिद्योगः साधितोऽष्टाङ्गयुक्तः कचिच्चित्तं साधु चित्तत्त्वगं ते ॥४०॥
इत्यद्वैताचार्यवर्येण तेन प्रेम्णा पृष्टः शङ्करः साधुशीलः ।
भक्त्युद्रेकाद्वाष्पपर्याकुलाक्षो बन्नन्मूर्धन्यञ्जलि व्याजहार ॥ ४१ ॥
यद्यत्पृष्टं स्पष्टमाचार्यपादैन्तत्तत्सर्व भो भविष्यत्यवश्यम् ।
कारुण्याब्धेः कल्पयुष्मत्कटादृष्टस्याऽऽहुर्दुर्लभं किंनु जन्तोः ॥ ४२ ॥
मूको वाग्ग्मी मन्दधीः पण्डिताग्ऱ्या पापाचारः पुण्यनिष्ठेषु गण्यः ।
कामासक्तः कीर्तिमानिःस्पृहाणामार्यापाङ्गालोकतः स्यात्क्षणेन ॥४॥
लेशं वाऽपि ज्ञातुमीष्टे पुमान्कः सीमातीनस्याद्य युष्मन्महिम्नः ।
तुष्ट्राऽत्यन्तं तत्वविद्योपदेष्टा जातः साक्षाद्यस्य वैयासकि सः ॥४४॥
आजानात्मज्ञानसिद्धं यमारादौदासीन्याजातमात्रं व्रजन्तम् ।
प्रेमावेशात्पुत्र पुत्रति शोचन्पाराशयः पृष्ठतोऽनुप्रपेदे ॥४५॥
यश्चाऽऽहतो योगभाष्यप्रणेत्रा पित्रा प्राप्तः स प्रपञ्चकभावम् ।
सर्वाहन्ताशीलनाद्योगभूमेः प्रत्याक्रोशं प्रातनोवृक्षरूपः ॥४६॥
तत्तादृक्षज्ञानपाथोधियुष्मत्पादद्वन्द्वं पद्मसौहार्दहृद्यम् ।
देवादेतद्दीनदृग्गोचरश्चेद्भक्तस्यैतद्भागधेयं ह्यमेयम् ॥ ४७॥
इत्याकाथाब्रवीगौडपादो वत्स श्रुत्वा वास्तवांस्त्वद्गुणौघान् ।
द्रष्टुं शान्तस्वान्तवन्तं मम त्वां गाढोत्कण्ठागर्भितं चित्तमासीत् ।।
कृतास्त्वया भाष्यमुखा निबन्धा मत्कारिकावारिजनुःसुखाः।
श्रुत्वेति गोविन्दमुखात्प्रहृष्य दृगध्वनीनोऽस्मि तवाद्य विद्वन् ॥ ४९ ॥
इति स्फुटं प्रोक्तवते विनीतः सोऽश्रावयद्भाष्यमशेषमस्मै ।
विशिष्य माण्डूक्यगभाष्ययुग्मं श्रुत्वा प्रहृष्यनिदमब्रवीत्तम् ॥ ५० ॥
Comments
Post a Comment