श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 217

कञ्चिन्नित्याः शत्रवो निर्जितास्ते कञ्चित्प्राप्ताः सद्गुणाः शान्तिपूर्वाः।

कञ्चिद्योगः साधितोऽष्टाङ्गयुक्तः कचिच्चित्तं साधु चित्तत्त्वगं ते ॥४०॥

इत्यद्वैताचार्यवर्येण तेन प्रेम्णा पृष्टः शङ्करः साधुशीलः ।

भक्त्युद्रेकाद्वाष्पपर्याकुलाक्षो बन्नन्मूर्धन्यञ्जलि व्याजहार ॥ ४१ ॥

यद्यत्पृष्टं स्पष्टमाचार्यपादैन्तत्तत्सर्व भो भविष्यत्यवश्यम् ।

कारुण्याब्धेः कल्पयुष्मत्कटादृष्टस्याऽऽहुर्दुर्लभं किंनु जन्तोः ॥ ४२ ॥

मूको वाग्ग्मी मन्दधीः पण्डिताग्ऱ्या पापाचारः पुण्यनिष्ठेषु गण्यः ।

कामासक्तः कीर्तिमानिःस्पृहाणामार्यापाङ्गालोकतः स्यात्क्षणेन ॥४॥

लेशं वाऽपि ज्ञातुमीष्टे पुमान्कः सीमातीनस्याद्य युष्मन्महिम्नः ।

तुष्ट्राऽत्यन्तं तत्वविद्योपदेष्टा जातः साक्षाद्यस्य वैयासकि सः ॥४४॥

आजानात्मज्ञानसिद्धं यमारादौदासीन्याजातमात्रं व्रजन्तम् ।

प्रेमावेशात्पुत्र पुत्रति शोचन्पाराशयः पृष्ठतोऽनुप्रपेदे ॥४५॥

यश्चाऽऽहतो योगभाष्यप्रणेत्रा पित्रा प्राप्तः स प्रपञ्चकभावम् ।

सर्वाहन्ताशीलनाद्योगभूमेः प्रत्याक्रोशं प्रातनोवृक्षरूपः ॥४६॥

तत्तादृक्षज्ञानपाथोधियुष्मत्पादद्वन्द्वं पद्मसौहार्दहृद्यम् ।

देवादेतद्दीनदृग्गोचरश्चेद्भक्तस्यैतद्भागधेयं ह्यमेयम् ॥ ४७॥

इत्याकाथाब्रवीगौडपादो वत्स श्रुत्वा वास्तवांस्त्वद्गुणौघान् ।

द्रष्टुं शान्तस्वान्तवन्तं मम त्वां गाढोत्कण्ठागर्भितं चित्तमासीत् ।।

कृतास्त्वया भाष्यमुखा निबन्धा मत्कारिकावारिजनुःसुखाः।

श्रुत्वेति गोविन्दमुखात्प्रहृष्य दृगध्वनीनोऽस्मि तवाद्य विद्वन् ॥ ४९ ॥

इति स्फुटं प्रोक्तवते विनीतः सोऽश्रावयद्भाष्यमशेषमस्मै ।

विशिष्य माण्डूक्यगभाष्ययुग्मं श्रुत्वा प्रहृष्यनिदमब्रवीत्तम् ॥ ५० ॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152