श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 218
मत्कारिकाभावविवोधितादृङ्माण्डूक्यभाष्यश्रवणोत्थहर्षः ।
दातुं वरं ते विदुषां वराय प्रोत्साहयत्याशु वरं वृणीष्व ॥५१॥
स प्राह पर्यायशुकर्षिमीक्ष्य भवन्तमद्राक्षमतिष्यपूरुषम् ।
वरः परः कोऽस्ति तथाऽपि चिन्तनं चित्तत्त्वगं मेऽस्तु गुरो निरन्तरम् ॥
तथेति सोऽन्तर्धिमपास्तमोहे गते चिरञ्जीविमुनावथासौ।
वृत्तान्तमेतं स मुदाऽऽश्रवेभ्यः संश्रावयंस्तां क्षणदामनेषीत् ॥ ५३॥
अथ धुनद्यामुषसि क्षमीन्द्रो निवर्त्य नित्यं विधिवत्स शिष्यैः ।
तीरे निदिध्यासनलालसोऽभूदत्रान्तरेऽश्रूयत लोकवार्ता ॥५४॥
जम्बूद्वीपं शस्यतेऽस्यां पृथिव्यां तत्राप्येतन्मण्डलं भारताख्यम् ।
काश्मीराख्यं मण्डलं तत्र शस्तं यत्राऽऽस्तेऽसौ शारदा वागधीशा॥
द्वारैर्युक्तं माण्डपैस्तच्चतुर्भिर्देव्या गेहं यत्र सर्वज्ञपीठम् ।
यत्राऽरोहे सर्ववित्सजनानां नान्ये सर्वे यत्प्रवेष्टुं क्षमन्ते ।। ५६ ॥
प्राच्याः प्राच्या पश्चिमाः पश्चिमायां ये चोदीच्यास्तामुदीची प्रपन्नाः।
सर्वज्ञास्तवारमुद्घाटयन्तो दाक्षा नद्धं नो तदुद्घाटयन्ति ।। ५७ ॥
वार्तामुपश्रुत्य स दाक्षिणात्यो मानं तदीयं परिमातुमिच्छन् ।
काश्मीरदेशाय जगाम हृष्टः श्रीशङ्करो द्वारमपावरीतुम् ॥ ५८॥
द्वारं पिनद्धं किल दाक्षिणात्यं न सन्ति विद्वांस इतीह दाक्षाः ।
तां किंवदन्ती विफलां विधातुं जगाम देवीनिलयाय हृष्यन् ॥ ५९॥
वादिबातगजेन्द्रदुर्मदघटादुर्गर्वसङ्कर्षण-
श्रीमच्छङ्करदेशिकेन्द्रमृगराडायाति सर्वार्थवित् ।
दूरं गच्छत वादिदुःशठगजाः संन्यासदंष्ट्रायुधो
वेदान्तोरुवनाश्रयस्तदपरं द्वैतं वनं भक्षति ॥ ६॥
Comments
Post a Comment