श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 220

तं कापिलः प्राह च मूलयोनिः किं वा स्वतन्त्रा चिदधिष्ठिता वा।

जगनिदानं वद सर्ववित्वानो चेत्प्रवेशस्तव दुर्लभः स्यात् ॥ ७१ ॥

सा विश्वयोनिर्बहुरूपभागिनी स्वयं स्वतन्त्रा त्रिगुणात्मिका सती ।

इत्येव सिद्धान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥७२॥

ततो नदन्तो न्यरुधन सगर्वा दवा परीक्षा व्रज धाम देव्याः।

बौद्धास्तथा संप्रथिताः पृथिव्यां बाह्यार्थविज्ञानकशून्यवादैः ॥ ७३ ॥

बाह्यार्थवादो द्विविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम् ।

विज्ञानवादस्य च किं विभेदकं भवन्मताहि ततः परं व्रज ॥ ७४ ॥

सौत्रान्तिको वक्ति हि वेद्यजातं लिङ्गाधिगम्यं त्वितरोऽक्षिगम्यम् ।

तयोस्तयोभंगुरताऽविशिष्टा भेदः कियान्वेदनवेद्यभागी ।। ७५ ॥

विज्ञानवादी क्षणिकत्वमेषामङ्गीचकारापि बहुत्वमेषः ।

वेदान्तवादी स्थिरसंविदेकेत्यङ्गीचकारेति महान्विशेषः ॥ ७६ ॥

अथाब्रवीदिग्वसनानुसारी रहस्यमेकं वद सर्वविच्चेत् ।

यदस्तिकायोत्तरशब्दवाच्यं तत्कि मतेऽस्मिन्वद देशिकाऽऽशु ॥ ७७॥

तत्राऽऽह देशिकवरः शृणु रोचते चेत्

जीवादिपञ्चकमभीष्टमुदाहरन्ति ।

तच्छन्दवाच्यमिति जैनमते प्रशस्ते

यद्यस्ति बोधुमपरं कथयाऽऽशु तन्मे ॥ ७८॥

दत्तोत्तरे वादिगणे तु बाह्ये बमाण कश्चित्किल जैमिनीयः ।

शब्दः किमात्मा बद जैमिनीये द्रव्यं गुणो वेति ततो ब्रज त्वम् ॥

नित्या वर्णाः सर्वगाः श्रोत्रवेद्या यत्तद्रूपं शब्दजालं च नित्यम् ।

द्रव्यं ब्यापीत्यत्रुवजैमिनीया इत्येवं तं प्रोक्तवान्देशिकेन्द्रः॥८॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152