श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 220
तं कापिलः प्राह च मूलयोनिः किं वा स्वतन्त्रा चिदधिष्ठिता वा।
जगनिदानं वद सर्ववित्वानो चेत्प्रवेशस्तव दुर्लभः स्यात् ॥ ७१ ॥
सा विश्वयोनिर्बहुरूपभागिनी स्वयं स्वतन्त्रा त्रिगुणात्मिका सती ।
इत्येव सिद्धान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥७२॥
ततो नदन्तो न्यरुधन सगर्वा दवा परीक्षा व्रज धाम देव्याः।
बौद्धास्तथा संप्रथिताः पृथिव्यां बाह्यार्थविज्ञानकशून्यवादैः ॥ ७३ ॥
बाह्यार्थवादो द्विविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम् ।
विज्ञानवादस्य च किं विभेदकं भवन्मताहि ततः परं व्रज ॥ ७४ ॥
सौत्रान्तिको वक्ति हि वेद्यजातं लिङ्गाधिगम्यं त्वितरोऽक्षिगम्यम् ।
तयोस्तयोभंगुरताऽविशिष्टा भेदः कियान्वेदनवेद्यभागी ।। ७५ ॥
विज्ञानवादी क्षणिकत्वमेषामङ्गीचकारापि बहुत्वमेषः ।
वेदान्तवादी स्थिरसंविदेकेत्यङ्गीचकारेति महान्विशेषः ॥ ७६ ॥
अथाब्रवीदिग्वसनानुसारी रहस्यमेकं वद सर्वविच्चेत् ।
यदस्तिकायोत्तरशब्दवाच्यं तत्कि मतेऽस्मिन्वद देशिकाऽऽशु ॥ ७७॥
तत्राऽऽह देशिकवरः शृणु रोचते चेत्
जीवादिपञ्चकमभीष्टमुदाहरन्ति ।
तच्छन्दवाच्यमिति जैनमते प्रशस्ते
यद्यस्ति बोधुमपरं कथयाऽऽशु तन्मे ॥ ७८॥
दत्तोत्तरे वादिगणे तु बाह्ये बमाण कश्चित्किल जैमिनीयः ।
शब्दः किमात्मा बद जैमिनीये द्रव्यं गुणो वेति ततो ब्रज त्वम् ॥
नित्या वर्णाः सर्वगाः श्रोत्रवेद्या यत्तद्रूपं शब्दजालं च नित्यम् ।
द्रव्यं ब्यापीत्यत्रुवजैमिनीया इत्येवं तं प्रोक्तवान्देशिकेन्द्रः॥८॥
Comments
Post a Comment