श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 214
उपेक्षमाणेऽपि गुरावनास्थया शरीरकादौ सुखमात्मनीश्वरैः।
नोपेक्षणीयं गुरुदुःखदृश्वभिदुःखं विनेयैरिति शास्त्रनिश्चयः ॥ ७॥
स्वस्थे भवत्पादसरोरुहद्वये स्वस्था वयं यन्मधुपायिवृत्तयः।
तस्माद्भवेत्तावकविग्रहो यथा स्वस्थस्तथा वाञ्छति पूज्य नो मनः ॥
व्याधिर्हि जन्मान्तरपापपाको भोगेन तस्मात् क्षपणीय एषः।
अभुज्यमानः पुरुषं न मुञ्चजन्मान्तरेऽपीति हि शास्त्रवादः ॥९॥
व्याधिविधाऽसौ कथितो हि विद्भिः कर्मोद्भवो धातुकृतस्तथेति ।
आद्यक्षयः कर्मण एव लीनाचिकित्सया स्याचरमोदितस्य ॥ १० ॥
संक्षीयतां कर्मण एव संक्षयाव्याधिः प्रवृत्तो न चिकित्स्यते मया ।
पतेच्छरीरं यदि तन्निमित्ततः पतत्ववश्यं न बिभेमि किञ्चन ॥११॥
सत्यं गुरो ते न शरीरलोभः स्पृहालुता नस्तु चिराय तस्मै ।
त्वज्जीवनेनैव हि जीवनं नः पाथश्चराणां जलमेव तद्धि ॥ १२ ॥
स्वयं कृतार्थाः परतुष्टिहेतोः कुर्वन्ति सन्तो निजदेहरक्षाम् ।
तस्माच्छरीरं परिरक्षणीयं त्वयाऽपि लोकस्य हिताय विद्वन् ॥ १३ ॥
निर्बन्धतो गुरुवरः प्रददावनुज्ञां दिग्भ्यो भिषग्वरसमानयनाय तेभ्यः ।
नत्वा गुरुं प्रतिदिशं प्रययुः प्रहृष्टाः शिष्याः प्रवासकुशला हरिभक्तिभाजः।।
प्रायो नृपं कविजना भिषजो वदान्य वित्तार्थिनः प्रतिदिनं कुशला जुषन्ते ।
तस्मादमी नृपपुरेषु निरीक्षणीया इत्येव चेतसि मनोरथमादधानाः॥
तेऽतीत्य देशान् बहुलान् स्वकार्यसिद्धथै क्वचिद्राजपुरे भिषग्भिः ।
अवाप्य संदर्शनभाषणानि समानयस्तान् गुरुवर्यपार्श्वम् ॥ १६ ॥
ततो द्विजेन्द्रर्निजसेवकस्तान सन्तोषितान् स्वाभिमतार्थदानः ।
यदत्र कर्तव्यमुदीर्यतां तत्कुर्मः स्वशक्त्येति वदाअगौ सः ॥१७॥
Comments
Post a Comment